233 
 235

वाग्मिवरस्याश्वघोषस्य लोकोत्तरः प्रभावः

साकेताभिधायां नगर्यामुवास किल महाकविरश्वघोषो बुद्धचरितमहाकाव्यस्य प्रणेता। अधिजगाम च तत्पुरोपशल्यं कुषाणवंशमुक्तामणिः सम्राट् कनिष्कः प्रसह्य तां जिगीषुः। प्रजिघाय च स तत्रत्याय नृपतये दौत्येन सन्देशममुम्—“यदि मह्यं त्रिलक्षमितान् शातकुम्भनिष्कान् विश्राणयेः, तर्हि समराभिलाषं सन्त्यज्य निवर्तेय। अथापलपेः, तदा संपद्येत रणमहोत्सवो येन ते पारतन्त्र्यमवर्जनीयमेव” इति।

शशाक साकेतेश्वरः स्वकोषे लक्षमात्रहाटकमुद्राणां सद्भावात् तावन्मात्रमेव दातुम्। समादिदेश च कनिष्क एतन्निरीक्ष्य—“उपाहर मह्यमेकलक्षस्वर्णमुद्राभिः साकं भगवतः शाक्यमुनेर्दीक्षापात्रं कविकुलतिलकं महाकविमश्वघोषं च” इति। उररीचकार च तदिदं सर्वं साकेताधिपः। प्रादाच्च प्रार्थितं वसु ताथागतं भिक्षाभाजनं च, प्रजिघाय चाश्वघोषं कनिष्केण समम्।

अजीजनत् किल सम्राजोऽयं निर्णयः कुषाणराष्ट्रे महान्तं जनापवादम्। “कश्चन वाग्जीवी खल्वयमश्वघोषः। को वास्य लोकोत्तरः प्रभावो येनैवमतिमात्रं नृपतिनादृतः?” इति पौरा मिथः समूचिरे।

“मा स्म दात तृणलवमपि सप्तानां बलदर्पितानां सैन्धवानां कृते षडहोरात्राणि यावत्” इति समादिदेश सम्राट् पौराणामपवादमाकर्ण्य। उपस्थापयामासुश्च राजपुरुषाः सप्तमेऽहनि क्षुधाक्षामकण्ठानां तेषां वाजिनां पुरस्तादभिलषितं यवसप्रकरम्। तदनु महाकविमाहूय सम्राडभ्यधात्—“भोः कवे! क्षुत्पीडितानिमान् वाजिन उद्दिश्य सद्धर्मोपदेशं व्याकुरुष्व” इति।

तदाज्ञां शिरसादाय महाकविस्तथागतस्य धर्मदेशनां प्रारेभे। ते तु हयाः पुरोवर्तिनं स्वादुतममाहारमवधूय कवेरमृतवर्षिणीषु वाग्धारासु नितान्तं दत्तावधाना बभूवुः। तदिदमश्रुतपूर्वमाश्चर्यमालोक्य विस्मयस्तिमितलोचनाः सम्पेदिरे पौराः।

तदाप्रभृति कनिष्कस्य राजसभायां न कोऽपि तं महाकविमवामंस्त। धर्मोपदेशमात्रेण तिरश्चोऽपि वाजिनो वशीकर्तुं प्रभविष्णोरश्वघोषस्य लोकोत्तरः प्रभावः सर्वत्र प्रथामगात्।

233 
 235