क्षमा भूषणं विप्राणाम्
अहरहर्देवायतने पौराणिकीं कथामाचचक्षे भगवदेकनिष्ठान्तरङ्गो हि कुलशेखराभिधो विपश्चित्। तदुदीरितामाख्यायिकापीयूषधारामास्वादयितुं महान्तं सम्मर्दं चक्रुरमी श्रवणकुतूहलिनः पौराः।
तस्मिन्नेव खल्वधिवासे नम्बियाराख्योऽन्योऽपि कश्चित्कथावाचनधुरीणो मनीष्यवात्सीत्। तेनाख्यायमानां कथां निशामयितुं तु विरला एव रसिकाः समाजग्मुः। तत एव निजजनप्रियताक्षयहेतुना कुलशेखरे भृशमसूयाञ्चकारासौ।
कदाचिन्निजाह्निककर्म निर्वर्त्य निवेशनं प्रतिनिवृत्तोऽसौ निजभार्यां तत्र नाद्राक्षीत्। 'अमुष्य कुलशेखरस्यैव कथाश्रवणाय नूनमियं गता भवेत्' इति तर्कयन्नेव कोपानलदह्यमानान्तरात्मा तदेव देवसदनमभिजगाम यत्रासौ कुलशेखरो जनाननुरञ्जयाञ्चकार। तत्रैवोपविष्टां निजगेहिनीं ददृश्वानसौ मत्सरी कुलशेखरं बहुविधं निर्भर्त्स्य दयितया सार्धं स्वगृहमेव न्यवर्तिष्ट।
तिरस्कृतोऽहममुनैवाज्ञातेन हेतुनेति विस्मयाविष्टचेताः कुलशेखरो बभूव। निराहार एव शयनीये निपपात गेहं सम्प्राप्तो नम्बियारो भार्ययोपकल्पितमशितव्यमप्यगणयन्। अधिशिश्ये शय्यां सापि पतिव्रता तद्धर्मपत्नी निराहारैव सती। सिषेवे सुखनिद्रामनायासमेव भगवन्तं ध्यायन्ती सा, किन्तु निद्रालवमपि नाससाद सन्तापसन्तप्तहृदयो नम्बियारः।
‘अहो बत सुमहान् खलु व्यतिक्रम आचरितो मया’ इत्यनुशयान एवासौ कृत्स्नां त्रियामामतिवाहयामास। प्रतस्थे चोषस्येव दीपमेकमादाय कुलशेखरस्य निवेशनं प्रति सः। उपविष्टस्तस्थौ स्वगृहदेहल्यामेव कुलशेखरोऽपि तां रात्रिं निद्रामलभमान एव। जगाद च दूरत एवाभ्यागच्छन्तममुं नम्बियारं ददृश्वानसौ ससम्भ्रममुत्थाय तदीयौ पाणी स्वकराभ्यां परिगृह्य— “ब्रूहि तावत्कस्ते मयापराधः कृत इति, येनाहमात्मानं संशोध्य त्वदनुकूलं वर्तेय” इति।
उवाच च सप्रश्रयं क्षमां भिक्षमाणोऽनुतप्तहृदयो नम्बियारोऽपि— “वृथैव त्वं निर्भर्त्सितो मयाविवेकहताशेन महाजनसमक्षम्। तत्क्षन्तुमर्हसि ममैनं जघन्यमपराधम्” इति।
प्राङ्गणभुवि प्रवृत्तमिमं संलापमाकर्ण्य तत्राविर्बभूव कुलशेखरस्य धर्मपत्नी। नयनाभ्यामविरलबाष्पबिन्दून्मुञ्चन्तौ परस्परं क्षमायाचनपरायणौ ताविमौ विप्रौ दृष्ट्वा तन्नेत्राभ्यामपि कारुण्याश्रुधाराः प्रसुस्रुवुः।