246 
 248

वीतरागप्रभावाच्चौरपरिवर्तनम्

प्रायच्छत् किल काचिदवनीश्वरी कस्मैचिद्विशुद्धचेतसे मस्करिणे जातरूपमयं महारत्नोपशोभितं भैक्षभाजनम्। वीतरागस्तु स तपोधनस्तदनर्घमुपायनमवाप्यापि न मनागपि प्रहर्षमुपजगाम, तूष्णीमेव च तदादाय ततो निरगात्।

अध्वनि व्रजतोऽमुष्य करे भ्राजमानं तत्काञ्चनभाजनं कश्चन पाटच्चरो ददर्श। तदपजिहीर्षया च स स्तेनस्तमकिञ्चनमन्वव्रजत्।

कियदध्वानमतिक्रम्य किञ्चन भग्नायतनं प्रविष्टोऽसौ यतिस्तत्सुवर्णपात्रं तृणवद्बहिर्निचिक्षेप। तदवलोक्य स तस्करः परं विस्मयमापेदे। “अहो अमुष्य महात्मनो वीतरागत्वम्, यदयमनर्घमपि काञ्चनभाजनं निर्निमित्तमुदस्यति” इति विस्मयमानः स स्तेनस्तज्जीर्णायतनं प्रविश्य बद्धाञ्जलिपुटो निपत्य चैनमप्राक्षीत्— “भगवन्, बहुमूल्यमप्येतत्पात्रम्, तथापि किमर्थं भवतेत्थं निरस्तम्?” इति।

“मम दृष्ट्या त्वेतत्केवलं भैक्षभाजनम्। हिरण्मये पात्रे पतितमपि भैक्षं भैक्षमेव भवति। त्वं तु तदादित्सुर्मामन्वगाः। तदिदं तवोपयोगाय कल्पतामिति धिया मयोज्झितम्” इति सस्मितं जगाद स परिव्राट्।

“अहो अमुष्य निरपेक्षता” इति चिन्तयन्नेव स चोरस्तस्य मुनेश्चरणौ पस्पर्श। तत्क्षणमेवाशनिसञ्चार इवापूर्वः कोऽपि रोमहर्षस्तस्य गात्रेषु समुदपद्यत।

स गद्गदगिराभाषत— “महात्मन्, यां खल्ववस्थां भवानारूढस्तामवाप्तुं कति वा जन्मानि मयातिवाहनीयानीति न जाने” इति।

“किमनेकजन्मप्रस्तावेन? इहैव जन्मनि त्वयापि सा स्थितिरासादयितुं शक्यते” इति मुनिः प्रत्युवाच।

“चौर्यकर्मणा खल्वहं प्राणान्धारयामि। किं तन्मया परिहर्तव्यम्?” इति पाटच्चरोऽपृच्छत्।

“तत्तु त्वयैवावधारणीयम्। तवान्तःस्थस्य ज्योतिरङ्कुरस्य प्रबोधनमात्रमेव मम कृत्यम्। तदेवाहमकार्षम्, शेषं सर्वं त्वदायत्तमेव” इति मस्करी निजगाद।

तस्मिन्नेवाहन्यसौ तस्करो निजं पापपूर्णं चौर्यकर्म सन्त्यज्य तस्य महात्मनः शिष्यत्वमुपागमत्।

246 
 248