गुणेष्वावृतो दोषः
फलमदृष्टपूर्वमेकं भूपतये कदाचिदुपायनीचकार कश्चन पौरः। अदश्च फलविशेषमादाय निजविश्वासभाजनायामात्याय वितीर्य जगाद जगतीपतिः—“आस्वाद्यताममुष्य रसः, विविच्य च निवेद्यतां कीदृगिदमिति।”
अमात्यश्चास्यैकमंशं रसनायां निदधानः सविस्मयमाचख्यौ—“अहो बतामुष्य फलातिरेकस्यापूर्वास्वादता! नैतादृक् फलं कदापि मयास्वादितचरम्” इति।
आकर्ण्य चैतदौत्सुक्याविष्टो राजा बभाषे—“तर्ह्यमुष्यैकोऽंशो मह्यमपि वितीर्यताम्” इति।
वितरणे त्वमुष्य फलखण्डस्य नृपाय नादर्शयत् स मन्त्री लेशतोऽप्युत्साहम्। निर्बन्धतस्ततो नृपोऽमात्यहस्तादेकं फलखण्डमाक्षिप्य निजमुखे निचिक्षेप। बभूव चादः खण्डमतितिक्तम्। निष्ठीव्य च तत्क्षणादेव वदनादमुं खण्डं दूरे निक्षिप्य, तिक्ततापनोदाय च खण्डशर्करामानाय्य भक्षयन् पप्रच्छ नृपो मन्त्रिणम्—“अहो मन्त्रिन्, ‘अपूर्वास्वादमदः फलं, नैतादृशं मया प्रागास्वादितचरम्’ इत्यलीकं किमर्थं त्वयाभिहितम्?”
प्रत्यवादीच्च सः—“राजन्, मदुक्तौ क्वास्ति मृषावादः? एतादृशमतिमात्रातिक्तं प्राङ् न मयास्वादितमित्येतन्न खलु मिथ्या। उपायनदात्राप्यमुष्यापूर्वत्वं ख्यापितमासीत् किल? तदेवानूदितं मयापि…”
आचख्यौ च राजा—“तर्ह्यमुष्य फलस्यातितिक्तत्वं किमर्थं न त्वया ख्यापितम्?”
मन्त्री प्रशान्तचेतसा प्रत्यभाषत—“देव! फलस्यास्य तिक्तता तु कश्चन गौणो विषयः। इतः प्राग्भवता बहून्यमूल्यान्युपायनानि मह्यं वितीर्णानि, यैश्चातीव प्रीतोऽभवमहम्। अद्य त्वस्मिन्नेकस्मिन्नेवावसरे भवद्वितीर्णे वस्तुनि तिक्तता मयानुभूता। एवं सति पूर्वलब्धांस्तान् प्रमोदभरान् विस्मृत्य, फलस्य तिक्ततामुद्घोष्य, प्रदातुर्भवतः स्वान्तं कथङ्कारमहं खेदयेयम्? अत एव मया स तिक्तांशो न प्रकाशितः। प्राचुर्येणानुकूलेषु गुणेषु सत्सु, एकस्यैवाप्रियांशस्य प्राधान्यं न कदापि विमृश्यम्। सर्वथा गौणीकरणीय एवासावंशः” इति प्रशान्तगिरा व्याजहारामत्यः।