पञ्चदशशताब्द्यां महाराष्ट्रखण्डे सोलापूरमण्डलान्तर्गते मङ्गलवेढेग्रामे समजनि काचिदपूर्वा घटना। तत्र हि विठ्ठलचरणारविन्दमिलिन्दो दामाजीपन्तनामा कश्चिद् भागवतोत्तमो न्यवसत्। अमुं च बिदरनगराधीशो यवननृपतिः करसङ्ग्रहणाधिकारे न्ययुङ्क्त।
कदाचिदस्य गृहमाजगाम कश्चिदतिथिः। तं च विधिवत् सम्पूज्य तेन साकं भोक्तुमुपविवेश दामाजीपन्तः। परन्तु प्रथमग्रासग्रहणात् प्रागेव सोऽतिथिर्बाष्पाकुललोचनो रुरोद। 'किं ते रुदितकारणम्' इति दामाजीपन्तेन पृष्टः सोऽवोचत् - “पाण्डुरङ्गक्षेत्रादहमिहाभ्यागतः। तत्र खलु बहुभ्यो वासरभ्यो जललवोऽपि न पपाताकाशात्। वर्षाम्बुकाङ्क्षिणः सर्वेऽपि कृषीवलाश्चातका इव परितप्यन्ते। अत्र त्वहं सुखासीनोऽन्नमश्नामि, परन्त्वेतेषां क्षुत्क्षामकण्ठानां स्मरणमेव मे कण्ठं रुणद्धि, न पारयामि चान्नमुपभोक्तुम्” इति।
एतदाकर्ण्य कारुण्यतरङ्गितहृदयो दामाजीपन्तो विविधैः सान्त्वनावचोभिस्तमाश्वास्य भुक्तवन्तं तं प्रभूतेन तण्डुलभारेण संयोज्य प्रेषयामास। परन्तु पथि गच्छन्तं तं दृष्ट्वा क्षुधापीडितैर्जनैस्ते तण्डुला अपहृताः। तस्यौदार्यस्य वृत्तान्तस्तु पण्ढरपुरे दिशो व्याप। ततः क्षुत्क्षामा जना मङ्गलवेढेग्राममागत्य दामाजीपन्तं धान्यमयाचन्त।
सर्वेभ्यः प्रदातुमपर्याप्ते स्वकीये धान्ये, राज्ञो धान्यपूर्णे कोष्ठागारे च तद्वितरणानधिकारेण सङ्कटमापन्नोऽसौ, क्षुधार्तानामाक्रन्दनममृष्यमाणः, चेतसैव रुक्मिणीशं प्रणम्य राजकीयभाण्डारस्य कपाटान्युद्घाट्य निखिलमपि धान्यं व्यतारीत्। अचिरादेव नृपश्रुतिपथमारुरोहायं वृत्तान्तः। रोषताम्राक्षश्च नृपस्तं शृङ्खलाभिर्निबध्य कारागारे निचिक्षेप।
स्वभक्तं कारागारनिगडितं विदित्वा करुणावरुणालयः पाण्डुरङ्गोऽस्य सेवकवेषमास्थाय यवननृपतेः सभामुपससर्प। 'दुर्भिक्षपीडितेभ्यो यद्धान्यं मत्स्वामिना वितीर्णं, तस्य निष्क्रयं दातुं तेनाहं प्रेषितः' इति निगद्य स्वप्रसेवकात् शातकुम्भमुद्राणां महतीं वृष्टिं मुमोच। तदतिमानुषं कर्म वीक्ष्य सर्वेऽपि सामाजिका विस्मयस्तिमितलोचना बभूवुः।
एतदवलोक्य 'नूनमेषा परमेश्वरस्यैवाचिन्त्या लीला' इत्यवधार्य झटिति यवननृपस्तं बन्धनान्मोचयामास। कालक्रमेण पञ्चत्वमापन्नस्यास्य महाभागस्य पुण्यस्मृतये पौरैर्निर्मितं मन्दिरमद्यापि तत्रैव विद्यते।