You are here: Home » stories » 249
248 
 250

परवाक्यप्रमाणानां प्रीतिरोषयोर्न विश्वसेत्

अतिदुस्तरा खलु दुर्गतिततिर्न मुमोच कञ्चिदनवद्यविद्याद्योतितान्तरात्मानमपि विप्रप्रवरम्। बभूव हि पुरा कोऽपि श्रुतिस्मृतिपारदृश्वा विपश्चित्प्रकाण्डः, यदीयं वेश्म दुर्निवारेण दारिद्र्येण नितान्तमुपहतमभूत्। कदाचिच्च भूपतेरास्थानमण्डपे केनापि तस्य दीनावस्था महीक्षते न्यवेदि - “देव, तादृशस्य शेमुषीजुषोऽस्मद्विषये निवासो नामास्माकं महदेवेष्टम्। तदस्य दारिद्र्यपङ्कोद्धरणाय किञ्चिदनुतिष्ठेस्त्वं चेत्साधीयः” इति।

तदाकर्ण्य करुणाविष्टचेताः क्षमापतिर्महामात्रमादिदेश - “हिरण्यधान्यांशुकनिवहैस्तं विपश्चितं सत्वरं संयोजय” इति।

तदनु मन्त्री नरेशस्याज्ञामनुपालयन्ननर्घ्याणि वस्तूनि शताङ्गे समारोप्य तद्विप्रवेश्म जगाम। तस्मै च हिरण्यपूरितं भाजनमर्पयन्नुवाच - “भोः प्रज्ञाशालिन्, तव प्रगल्भं पाण्डित्यं केषाञ्चिन्मुखादश्रौषीदस्मत्स्वामी। ततस्ते दारिद्र्यदावानलोपशमनाय तेनामूनि वसुवसनादीन्युपायनानि प्रादीयन्त” इति।

किन्तु निःस्पृहः स विपश्चित् तान् सर्वानुपहारान् सप्रश्रयं प्रत्याचक्षाणः सचिवं प्रतिनिवारयामास। मन्त्रिणि प्रतिनिवृत्ते सति तद्भार्या कुपिता सती पतिमभ्यभाषत - “आस्तां तावदस्मद्गृहे दुःसहा दरिद्रता। ईदृश्यां विपद्यपि राज्ञा प्रहितानि वस्तूनि किमर्थं न प्रत्यग्रहीः? अयाचितोपस्थितस्यास्य निधेर्निराकरणं किन्नाम साम्प्रतम्? अगाधं ते वैदुष्यं स्यान्नाम, किन्तु लोकवृत्तान्ते तु नितान्तमनभिज्ञ एवासि त्वम्” इति।

तदाकर्ण्य विप्रः प्राह - “सुभ्रु, सम्यग्विचार्यैवामीषामुपहाराणां ग्रहणं मया न्यषेधि। न हि नरेन्द्रेण स्वयमेव मदीयं वैदुष्यमन्वभावि, केवलं परगिरमुपश्रुत्यैव तेनामूनि वस्तूनि प्रादीषत। आयत्यां यदि केचन दुर्जना मयि दोषमारोपयेयुस्तर्हि तत्राप्यसौ विश्वस्यात्। तदा मे दण्डमपि स विधास्यति। यः खल्वन्येषां गिरमवलम्ब्य कृत्याकृत्ये व्यवस्यति, स यथा प्रीतिं तथा कोपमप्याविष्कर्तुमीष्टे। यदि तस्य प्रीतिः स्वीक्रियेत तर्ह्यवश्यं कोपोऽपि सोढव्य एव भवेत्। यस्तु परवाक्येषु विश्वसिति, तस्य नास्माभिः प्रीतिराकाङ्क्ष्यते, न वा कोपः” इति।

पत्युर्वचसि परमार्थतत्त्वमस्तीत्यवगच्छन्ती सा सहधर्मिणी तूष्णीम्भावमेवाललम्बे।

248 
 250
Search
stories/249.txt · Last modified: 2026/07/29 12:27