अथैकदा तमस्विन्यां पथि सञ्चरमाणं तं गोस्वामिनं तुलसीदासं सहसैव निशिचरप्रभवा इव केचन तस्कराः पर्यवारयन्। ते चैनं निष्ठुरगिरा पप्रच्छुः— “कस्त्वमसि?” इति। स तु स्मितपूर्वं प्रतिजगाद— “अस्मि कोऽपि भवत्सदृश एव पथिकः” इति।
अथैनं चौर्यवृत्त्यवलम्बिनमात्मानुकारिणं मन्वानस्तेषां यूथपतिराबभाषे—“अभिनवस्त्वमस्मिन् देशे चरिष्णुर्लक्ष्यसे। तदेहि, साधय कार्यमस्माभिः समम्” इति।
ततस्तैः समं प्रतस्थे स महात्मा। अथ ते दस्यवः कस्यचिदाढ्यस्य सद्मनो मुमुषिषयोद्यमं चक्रिरे। तदा स दस्युपतिस्तुलसीदासमुवाच—“अये, त्वं बहिस्तादेव चक्षुर्भूत्वा तिष्ठ। यदि कमपि प्रेक्षिष्यसे, तर्हि सत्वरमस्मान् ज्ञापय” इति।
तेषु च कुड्यं भित्त्वाऽन्तर्विविक्षुषु, स महानुभावः स्वस्यूतात् कम्बुमुद्धृत्य तारस्वरेण दध्मौ। तं कम्बुनिनादमाकर्ण्य भीतिविह्वलाः परिमोषकास्तस्माद् गेहाद् बहिर्निःसृत्य तमेव कविमादायापदुद्रुवुः।
विजनां भूमिमासाद्य ते तं पर्यपृच्छन्—“भोः, किमकार्षीस्त्वं कम्बुध्वनिम्?” इति। सोऽवदत्— “आदिष्टोऽहं युष्माभिर्यथा— यदा कोऽपि चक्षुर्गोचरो भवेत् तदा ज्ञापनीयमिति। अतो मया समन्ताद् दृष्टिः प्रासारि। तदा मे रघूद्वहः साक्षाददर्शि। स युष्माकमिदं चौर्यविलसितं पश्यतीत्याशङ्क्यैव मयाऽयं शङ्खः पूरितः” इति।
पुनरपि ते पप्रच्छुः—“क्व पुनस्त्वया स दाशरथिर्विलोकितः?” इति। तुलसीदासः प्रत्युवाच—“क्व नु खलु कथयानि? स हि भगवान् सर्वत्रैव विद्यते। यत्र यत्र मे नयने पततस्तत्र तत्र स मे साक्षात्क्रियते। तत् कथमिदानीं तदीयं स्थानविशेषं व्यपदिशेयम्?” इति।
तस्यैतद् वचनमाकर्ण्य ते स्तेनास्तत्त्वमविदुः। नूनमयं न साधारणो जनः, अपि तु कश्चिद् भगवद्भक्तशिरोमणिरिति निश्चित्य, तस्मिन् परमां भक्तिमुपेत्य दण्डवत् प्रणिपेतुः।