← 301 
 303 →

राज्ञो जगद्देवस्य मोहभङ्गः

पुरा किल जगद्देवनामा कश्चिदवनीपतिर्बभूव। 'अशेषोऽयं विश्वप्रपञ्चो मया विजेतव्यः, निस्सीमं च द्रविणमुपार्ज्य परमां निर्वृतिरनुभवितव्या' इत्येवमासीत्तस्य गरीयसी लालसा। तन्निमित्तं स नितरां समरव्यसनी बभूव। एकैकशो धरणीतलगतान् सर्वानपि जनपदान् स्वकरतलामलकीकर्तुं स प्रायतत। समुपार्जितं च तेन प्रभूततमं वसु।

अथ कदाचित् कश्चन परिव्राजकस्तमभ्येत्य व्याजहार— “भो राजन्! क्षुद्रतरास्तिस्रो मे वाञ्छा विद्यन्ते। किं ताः पूरयितुं प्रभविष्यसि त्वम्?” इति।

“कथमिव न? अगाधो मे विभवः, अप्रतिहता च मे विक्रमसम्पत्। तव मनोरथपूरणे कियान्वा मे क्लेशः स्यात्? अभिधीयताम्, किं मया विधेयम्?” इति सदर्पमुवाच स नृपः।

ततः स यतिः कञ्चन बृहन्तं पर्यङ्कमानाय्य प्रोवाच— “यथाणुरप्यवकाशो न शिष्येत, तथेमं कृत्स्नमपि पर्यङ्कमभिव्याप्य त्वया शयितव्यम्” इति।

“कथमिवैतच्छक्येत? निजदेहायामानुरूपमेव स्थानमध्यासितुं शक्यते, न तु समग्रः पर्यङ्कः” इति प्रत्युवाच भूपतिः।

तदनन्तरं स मस्करी कस्मिंश्चिन्महाभाण्डे बहुविधं भक्ष्यभोज्यादिकमानाय्य भूयोऽपि बभाषे— “एतदखिलमपि त्वयैव सद्यो भोक्तव्यम्” इति।

नृपस्तु प्रत्याचष्ट— “कथं नु तच्छक्येत? दशभ्योऽप्यधिकेभ्यो जनेभ्यो पर्याप्तमन्नमत्र वर्तते। मयैकाकिना कथमेतदशेषमत्तुं शक्येत?” इति।

अथ स संन्यासी काञ्चित्तरुशाखां छित्त्वादिदेश— “इमां छिन्नां शाखां पुनरपि तस्मिन्नेव वृक्षे सन्दध्याः” इति।

“लूना शाखा कथङ्कारं पुनरपि तरौ सन्धातुं शक्येत? नैतच्छक्यम्” इति निगदितवान् क्षमापतिः।

तदासौ परमहंसो न्यगादीत्— “नैव त्वया स महापर्यङ्कः कृत्स्नशोऽभिव्याप्तुं पारितः, न चापि प्रभूततममन्नमत्तुं पार्यते, न वा छिन्ना शाखा पुनरपि वृक्षे सन्धातुं शक्या। एवमवस्थिते सति, 'समग्रमपि जगद्विजेतव्यम्' इति केयं ते मौढ्यरूपा दुराशा? किं कृत्स्नापि वसुन्धरा, सम्पदखिला वा त्वयैकाकिना उपभोक्तुं शक्येत? किं वा समरेषु निहतानां प्राणाः पुनरुज्जीवयितुं शक्येरन्? नैव खलु। तदत्रैवं स्थितेऽपि किमर्थोऽयं ते निरर्थको भूमिमोहः, वित्तलोभः, वृथा रक्तपातप्रयासश्च? सर्वमेतदपास्य प्रजानां शान्तिं समृद्धिं सुखं च सम्पादयितुं यतस्व। तदेव खलु राज्ञः परमं धर्म्यं कर्तव्यम्” इति।

अमृतायमानानि तीक्ष्णानि चैतानि यतिवचनानि राज्ञो हृदयमभ्यविध्यन्। तस्मिन्नेवाह्नि स सर्वानपि समरप्रयासान्परित्यज्य केवलं प्रजापालने सम्यग्दत्तावधानो बभूव।

← 301 
 303 →