श्रममहिमोद्बोधनम्
गूढवेषमास्थाय स्वयमेवाश्वशकटं चोदयन्वसुधाधिपः किल कदाचिद्देशाटनं चकार। कञ्चन ग्राममुपसर्पतोऽमुष्य रथचक्रान्नेमिर्विश्लिष्य पृथग्बभूव।
नेमिं पुनर्घटयितुं कर्मारमन्वेषमाणो नृपः पल्लिकायां बभ्राम। आसादितश्च कश्चनायोकारः। स तु न्यगादीत्— “एकादश्यद्य, विश्रामदिनमिदम्। तस्मान्नाहं किमपि कर्मारभे” इति।
“दवीयांसमध्वानं तीर्त्वागतोऽस्मि। नेमिसन्धानमन्तरेण शकटस्याग्रे नयनं दुःशकम्। तस्मादनुगृह्यतां साहाय्यदानेन” इति पार्थिवो ययाचे।
तदीयां प्रार्थनां पुरस्कुर्वन्कर्मारः प्रत्युवाच— “सज्जोऽस्मि ते साहाय्यमाचरितुम्। परन्त्वद्य मे सहायको न सन्निहितः। यदि त्वं भस्त्रादण्डं सञ्चालयन्मारुतं धमेस्तर्हि सिद्ध्येदिदं कर्म” इति।
बाढमित्युक्त्वा महीपतिर्भस्त्रादण्डसञ्चालनमुपचक्रमे। प्रागनुपभुक्तश्रमकर्मणोऽमुष्य कोमलाङ्गेभ्यः प्रसुस्रुवुः स्वेदजलधाराः। तथापि निर्बन्धमपरित्यजन्कथञ्चित्कृच्छ्रेणायोकाराय साहाय्यं विदधे।
निष्पन्ने च कर्मणि, रथाङ्गे च शकटे नियोजिते, “कियन्मूल्यमत्र ते प्रदेयम्?” इति पप्रच्छ राजा। “षड्रजतमुद्राः” इति व्याजहार लोहकारः।
राज्ञा तु षट्सुवर्णमुद्राः प्रदत्ताः। ता दृष्ट्वा विस्मयस्तिमितलोचनः कर्मारः— “आर्य, षड्रजतमुद्रा एव देया इति मया गदितम्। सम्यङ्नाश्रौषीरिति मन्ये। तस्मात्सुवर्णमुद्राः प्रादाः” इति वदंस्ताः प्रतिदातुमुपचक्रमे।
तदा तासां प्रतिग्रहं प्रत्याचक्षाणो राजा जगाद— “सञ्चिन्त्यैवेमाः सुवर्णमुद्राः प्रत्ता मया। जीवनेऽस्मिन्नैदम्प्राथम्येन श्रममकार्षम्, अन्वभूवं च तज्जनितमनिर्वचनीयमानन्दम्। श्रमस्य महिमानं मामवबोधितवते तुभ्यं गुरुदक्षिणारूपेणैतद्धनं विश्राणितम्” इति।
इत्युदीर्य रथमारुह्य जवेन तस्माद्देशात्प्रतस्थे वसुधाधिपः। विस्मयविस्फारितेक्षणः कर्मारस्तु तां दिशमनिमेषं पश्यंश्चित्रार्पित इव तस्थौ।