← 306 
 308 →

कामाहङ्कारनिबर्हणोपायः

परानुग्रहदीक्षितो बभूव कश्चित् तपोनिधिः साधकप्रवरः। अनवद्याममुष्य कर्मानुष्ठाननिष्ठां लोकोत्तरं च शीलमवलोक्य चमत्कृताः पौरजानपदा विस्मयोत्फुल्ललोचनास्तमजस्रं तुष्टुवुः।

आजगाम कदाचित्किल कश्चिच्छ्रद्धालुस्तदीयं तपोवनं दिदृक्षया। ददर्श चासौ तत्र यतेरुपकण्ठे न्यस्तं सलिलसम्पूर्णमेकं मणिकं, सधूमप्रज्वलदङ्गारभृतां काञ्चिद्धसन्तिकां च। अमू खलु द्वे अपि वस्तूनी तस्य शान्तमूर्तेर्महात्मनः पार्श्वे न्यस्ते एवावातिष्ठेताम्।

अविदिततद्गूढाभिप्रायस्तु स भक्तो सकौतुकं पप्रच्छ—“भगवन्! कुतो हेतोरयं सलिलभृतः कुम्भः, ज्वलदङ्गारधानी च सर्वदात्रभवतः सविधे विराजेते?” इति।

प्रत्युवाच तदा स प्रशान्तमूर्तिर्महात्मा—“तात! मदीयाः सर्वा अपि सांसारिकवासना अस्मिन् सलिले निमज्जयितुमीहे, अहङ्कारं चास्मिन् पावके निदिधक्षामि। अपां कुम्भस्य जातवेदसश्च मुहुर्मुहुर्दर्शनेन मयावश्यमनुष्ठेयस्य परमपुरुषार्थसाधनस्य स्मृतिर्मे जागर्ति। अन्तःशत्रवः सर्वथैव समूलमुद्धृत्यापासितव्या इत्येषोऽर्थो मा स्म विस्मृतिपथं गादिति धियाहमेतद्द्वयं मत्सविधे सन्निधापयामि” इति।

तदाकर्ण्य विस्मयाविष्टचेता भक्तः पप्रच्छ —“अहो भगवन्! किमिदं व्याह्रियतेऽत्रभवता! पारमार्थिकसाधनायाः परमोच्चशिखरे खल्वधिरूढो वर्तते भवान्। तादृशं वीतरागं भवन्तममी क्षुद्रा दुर्गुणाः कथं नाम कलुषीकर्तुं प्रभवेयुः?” इति।

जगाद मुनिः—“अये, महान् खलु ते मोहः! समुत्तुङ्गशिखरमारूढस्यापि पुरुषस्य निमिषार्धेनैवाधःपतनं सम्भाव्यते। ‘नाहं कदापि स्खलेयम्’ इति जातुचिदपि केनापि योगिना न मन्तव्यम्। भूतले स्थितस्य पतनं न तावत् क्लेशकरं भवति। किन्तु, गगनस्पर्शिन्यास्तुङ्गपदव्याः प्रपातो निर्विवादमतिभयावहः सम्पद्यते। तस्मादुन्नतपदवीमध्यासीनेनापि योगिना षड्वर्गशत्रुभ्यः स्वात्मानं परिरक्षितुं सुतरामप्रमत्तेन भाव्यमेव!”

“स्वामिन्! तथाविधा खल्वप्रतिहता भवदीया तपःसाधना, यया दुर्गुणानामङ्कुरणमप्यत्रभवति नैवोपपद्यते। अशेषकल्याणगुणसम्पन्नः खल्वत्रभवान्”—इति पुनरपि बभाषे स श्रद्धालुः।

“अखिलानां सद्गुणानां निधानं तु स एको नारायण एव। यस्मिन् खल्वहनि ‘अहमेवास्मि सर्वगुणसम्पन्नः’ इत्येषोऽवलेपपूर्णो भावो मदीयान्तःकरणे समुदियात्, तस्मिन्नेवाहन्यवश्यम्भावि मे दारुणमपभ्रंशनम्”—इति निजगाद स महात्मा।

“काममेवमस्तु, परन्त्वनयोः कामनाहङ्कारयोर्विषय एव कुतोऽत्रभवतोऽतिशायिनी सावधानावस्था?” इति पप्रच्छ स भक्तः।

विशदीचकार च मुनिः—“ईषदपि प्रमादो यदि सञ्जायेत, तर्हि काचन वासना सद्य एवाङ्कुरेत्। अनवधाने सति चावलेपः प्रादुर्भूय भृशं प्रवर्धेत। समस्तेष्वपि मानसेषु रिपुष्वनयोर्द्वयोर्निग्रह उच्चाटनञ्चातीव दुष्करं सम्पद्यते। तस्मादेवानयोरेव विषय आत्मानमहमत्यन्तमप्रमत्तं धारयामि” इति।

← 306 
 308 →