You are here: Home » stories » 306
← 305 
 307 →

धृतिसम्पन्ना महिषी

सार्वभौमो बभूवातुलो बलपराक्रमनिधिरशोको नाम। 'अव्याहतं निजसाम्राज्यविस्तारणमेव विजिगीषोः परमं लक्ष्म' इति मन्वानोऽसौ क्षत्रियो महत्या पृतनया समं तदा तदा प्रस्थाय नानानृपतीन् स्वायत्तीचकार।

विजयपुर्यां खल्वास शमप्रियो वीरसेनो नाम क्षमापतिः। धर्म्येण पथा महीं शासन्, शाश्वतं प्रजाहितमेवानुध्यायन्, असौ प्रकृतीनां नितरां प्रियो बभूव। जातु दण्डयात्रामनुतिष्ठन्नशोको विजयपुरीमभियाय रुषाचक्राम। निजराष्ट्रत्राणाय बद्धपरिकरेण वीरसेनेन कृतमपि तुमुलं रणमन्ततो मोघमभूत्, पराजिग्ये चासौ। तं निगडितं विधाय चारके निक्षिप्य चाशोको विजितायास्तस्याः पुर्या राजपीठे स्वयमासीनः प्रभुत्वं चकार।

अथ जातुचिदवगुण्ठनवती काचिन्नारी राजसंसदमभ्येत्य न्यायमयाचत।

'का नामान्याय्या वृत्तिस्त्वय्याचरिता ?' इति पप्रच्छ सम्राट्।

सा चावगुण्ठनवत्यभाषत—'राजभटैर्दुर्वृत्तमाचरद्भिर्मदीया वसुन्धरा वसु च वशीकृत्य मे पतिर्बन्धनागारे न्यधायि' इति।

तदाकर्ण्य भृशं दूयमानोऽशोकः—'यत्रास्ति मे प्रभुत्वं, तत्र कथमिवैतादृशमसाधु वृत्तं प्रादुस्स्यात्? केन खल्वाचरितोऽयं कुत्सित आचारः? तमहमनुरूपेण दण्डेन सम्यक् शासिष्यामि' इति जगाद।

'तस्य शासनं तु सुदुष्करम्। स्वयं महादण्डनायकोऽपि तं प्रति किमपि कर्तुं न प्रगल्भेत' इति सा महिला प्रत्युवाच।

'निरातङ्कं तस्य वृत्तान्तो निवेद्यताम्। अहमेव तं सम्यग्विचार्य दण्डयिष्यामि' इत्यशोकः सदार्ढ्यमभाषत।

'अपि नाम निष्पक्षपातो व्यवहारोऽत्र सम्भवेत् ?' इति सा पप्रच्छ।

'किमुत! सार्वभौमस्याशोकस्य मम राज्ये धर्मनिर्णये जातुचिदपि पक्षपातो न भवेदेव' इत्यवददसौ।

ततः सा सीमन्तिनी—'तर्हि तदसाधु कृत्यं त्वयैवानुष्ठितम्। मे पतिः शमेन धर्मेण च निजराष्ट्रमनुशास्ति स्म। न किञ्चिदप्यपकृतं तेन ते। तथापि त्वयाऽस्मदीयं राष्ट्रं स्वायत्तीकृत्य मे पतिश्चारके निगडितः। अपि नामैतद्धर्म्यम्?' इति निगदन्ती स्वावगुण्ठनमपजहार।

तस्यास्तं सात्त्विकं मन्युं, धीरतां, वीरोचितं चेष्टितं च विलोक्याशोको विस्मयेन स्तम्भीबभूव। 'अकारणेनैव मया वीरसेनस्य राष्ट्रं स्वायत्तीकृतम्, स च नृपश्चारके निक्षिप्त इति यत्तदेतदतीवानुचितम्' इत्यसावन्वबुध्यत। ततश्च तां राज्ञीं क्षमां भिक्षमाणो वीरसेनस्य बन्धनान्मोचनायादिदेश।

'परस्वमपजह्रिवान् जनः केन दण्डेन शासनीयः?' इति प्राड्विवाकान् स पप्रच्छ।

'स्वराष्ट्रान्निर्वासनीयो भवति तादृशः' इति प्राड्विवाकाः प्रत्यवदन्।

ततोऽशोकस्तं वीरसेनं विजयपुर्या राजपीठे भूयः प्रतिष्ठाप्य, तं सस्नेहं सप्रश्रयं चालिङ्ग्य, स्वराष्ट्रं प्रतिजगाम।

← 305 
 307 →
Search
stories/306.txt · Last modified: 2026/09/25 12:32