अथ पौलस्त्यकुलधूमकेतुं दशाननं प्रमथ्य प्रतिनिवृत्तो दाशरथिः रामभद्रः साम्राज्येऽभिषिषेचे। तदनु जानकीलक्ष्मणभरतशत्रुघ्नास्तत्सविधमुपसृत्य सादरं व्यजिज्ञपन् - “देव! अद्ययावदेक एवायं मारुतिर्भवतः सकलां परिचर्यामकार्षीत् । अमुष्य प्रभावेण वयं तु भवत्सेवाभाग्याद्विमुखा एवाभूम। अतोऽधुनाऽस्मभ्यमपि भवदाराधनसौभाग्यमनुगृह्यताम्” इति।
तच्छ्रुत्वा काकुत्स्थ ईषत्स्मित्वा मारुतिमाजुहाव। सीतादिभिरभ्यर्थितं तस्मै निवेद्य चैनमप्राक्षीत् - “किमिदमद्य ते रोचते?” इति। वस्तुतस्तु पवनतनयस्तदा नितरां विषण्णोऽभूत्, आत्मनः परिचर्यासौभाग्यं विलयमेष्यतीति शङ्कमानः। तथापि प्रभोराज्ञैव शिरोधार्येति निश्चित्य स जगाद - “यथाज्ञापयति देवस्तथैवास्तु” इति।
तदा राघवः सीतादीनब्रवीत् - “हनुमतो यदि सर्वामपि परिचर्यामपहरिष्यथ, तर्हि स नूनं सन्तप्तमना भविष्यति। अतो नैतद्विधेयम्। यूयं तु सर्वे संभूय भवत्सु कस्य किं किं कृत्यमिति कार्यावलिं सज्जीकुरुत। यद्यत्र किमपि कार्यमवशिष्येत, तर्हि तदानुष्ठातुं हनुमान् प्रभवति” इति। सीतादयस्तदानन्दं तद्वचः प्रत्यगृह्णन्। ते चामी व्यचिन्तयन् - ‘यदि वयमेकमपि कार्यं न परित्यजेम, तर्हि हनूमते किमपि नावशिष्येत’ इति। ततस्ते संहत्य एकमेव कृत्यं न हास्याम इत्यध्यवसायेन महता सावधानेन सर्वाणि कृत्यानि स्वेष्वेव व्यभजन्, कार्यावलिं च तां सम्यगसज्जयन्। अथ तामावलिं राघवाय समर्पयामासुः। राघवश्च तामावलिं मरुत्सुताय प्रदायोवाच - “वत्स! अस्यामावल्यामनुक्तं यदिह किमपि कृत्यमवशिष्टम्, तत्तवैव भविष्यति” इति। हनूमांस्तु तां कार्यावलिं सूक्ष्मेक्षिकया पर्यशीलयत्। प्रत्यूषादारभ्य यावच्च शर्वरी, तानि सर्वाण्यपि स्वानुष्ठेयानि कृत्यानि सीतादिभिरपहृतानीति विज्ञाय सोऽत्यर्थं विषण्णो बभूव। मुहूर्तं विचारमूढस्तिष्ठन् सः प्रफुल्लवदनोऽजायत। प्रमोदभरेण च स ननर्त।
अमुना च गर्वितमनसः सीतादयो हनूमन्तमद्राक्षुः। ‘अस्माभिर्निःशेषितानि सर्वाणि कार्याणि यदमुष्मादपाहारिष्म’ इत्यभूत्तेषामभिमानः। परन्त्विदानीं तस्य प्रमोदनर्तनं विलोक्य ते सर्वे विसिष्मियिरे। तदा भगवान् काकुत्स्थ एव स्वयं पप्रच्छ - “वत्स! केन हेतुना नृत्यसि?” इति। हनुमानुवाच - “देव! एतैर्महता खलु प्रयासेन इयमावलिः सज्जीकृता, तथाप्येकमत्रानुल्लिखितं कृत्यमवशिष्यते…”
तच्छ्रुत्वा सीतादयोऽन्योऽन्यं मुखानि ददृशुः। प्रमादादपि किमपि कृत्यं नास्माभिः परित्यक्तमिति तेषां दृढप्रत्यय आसीत्। ‘अहो, अस्माभिरज्ञातं किन्नाम तत्कृत्यं यदनेन विदितम्’ इति तेषां मनसि महती जिज्ञासा समजनि।
तदा हनुमान् पुनर्जगाद - “देव! यदा जृम्भा भवन्तमाविशति, तदा कश्चन दोषो जायत इति शास्त्रविदो वदन्ति। तद्दोषप्रशमनाय मुखाग्रतोऽङ्गुलीभिश्छोटिका वाद्या। किमिदं कृत्यं भवता स्वयमनुष्ठेयम्? न खलु। मादृशेन परिचारकेणैव तत्कार्यम्। तदिदं कृत्यमेतैः सुदीर्घायामप्यावल्यां नैव न्यवेशि। अपि च, अन्येषां भवत्परिचर्यार्थं मया देशान्तरेषु अटितव्यं भवेत्। जृम्भा तु कदा समुद्भविष्यतीति को वा वेत्तुं प्रभवेत्? अतस्तत्समीपे स्थितेन मया भवद्वदनारविन्दमेव सततमालोकयता स्थेयम्। ईदृशं सौभाग्यमन्यासु परिचर्यासु कथं नु लभ्येत? अतो मम परमोऽयं प्रमोदः, यदेतत् कृत्यं भवदनुकम्पयैव मया लब्धम्” इति।
श्रीरामः स्मितवदनः सीतादीनाननमैक्षत। ते तु सर्वे मरुत्सुतस्य माहात्म्यमवगम्य, 'अहो, वयमीदृशं महाभक्तमतिशयितुं गर्वमकार्ष्म' इति व्रीडया नतानना बभूवुः।