राघवीयौदार्यम्
तातस्य शासनाद् दण्डकारण्यप्रवासाय सज्जो बभूव रामस्तदानीमसौ मनसि चकार - ‘अहं हि चतुर्दश समा वनवासदुःखमनुभूय यावन्न प्रत्यागमिष्यामि, तावदस्मत्पुरवासिनः साकेतजना मा भूवन् वित्तवैकल्येन पीडिताः, इत्येतदर्थं तेभ्यो यथाकामं वसु वितराणि’ इति। इति सञ्चिन्त्य तेन तथैव दानसत्रमारब्धम्। पौरजनेभ्योऽसौ मुक्तहस्तेन प्रभूतं हिरण्यरजतवस्त्रादिकं व्यतरत्। इत्थमेकतः साकेतवासिनो लब्धवित्ताः परमां मुदमाययुः, अन्यतश्च पितुराज्ञया सिंहासनमुज्झित्वा सीतालक्ष्मणसहायस्य तस्य काननगमनवार्तया भृशं दुदुवुः।
अथ तस्मिन्नेवावसरे साकेते त्रिजटनामा कश्चिद् विप्रर्षिर्वयोवृद्धः सकुटुम्बः प्रतिवसति स्म। सोऽतीव दारिद्र्योपहत आसीत्। यदा खलु तस्य धर्मपत्नी राघवस्य दानशौण्डतां शुश्राव, तदा सा सानुनयं भर्तारमभ्यधात् - “आर्यपुत्र, त्वमपि तं काकुत्स्थं प्रपद्यस्व। ततो वसु याचस्व। स हि परमकारुणिको नूनं तेऽर्थितां सफलयिष्यति, येन वयं सुखेन जीविष्यामः” इति। इति पत्न्या वचो निशम्य स त्रिजटो झटित्येव रामान्तिकमुपगम्य द्रव्यमयाचत।
दाशरथिस्तमीषत्स्मित्वा तस्मै यष्टिमेकां प्राददात्, जगाद च - “विप्रवर, त्वमिमां यष्टिं सर्वबलेन प्रक्षिप। यत्रैषा पतिष्यति, तदवधौ भूभागे यावत्यो गावो विचरन्ति ताः सर्वास्तवैव सम्पत्स्यन्ते” इति।
स तु जरया कृशतनुर्विप्रो मनस्येवं व्यमृशत् - ‘अहं तु बलहीनः। अतो मया प्रक्षिप्तोऽयं दण्डः कियद्दूरं वा गच्छेत्? नैवानेन मम महान् लाभो भवितुमर्हति। तथापि यतिष्ये’ इति। ततश्चासौ क्षुभितचेताः सकृद् राघवं ददर्श। राघवस्तस्य चेतोवृत्तिमाज्ञाय मनाक् स्मित्वा व्याजहार - “किमर्थं विलम्बसे? क्षिप्रं यष्टिं प्रक्षिप” इति।
तदा स विप्रः येनकेनप्रकारेण तां यष्टिं चिक्षेप। किन्तु महदेतदाश्चर्यमासीद् यदसौ दण्डः सरय्वाः पारं गत्वा तत्र निपपात, यत्र हि प्रभूतं गोधनं विचरति स्म। अथ रामस्तं द्विजवरं सस्नेहमाहूय बभाषे - “अमूषां सर्वासामपि धेनूनां त्वमेवाधिपतिरसि। इदं गोधनं प्रतिगृह्यताम्” इति।
त्रिजटोऽतीव विस्मितो राममैक्षत, यतोऽसौ सम्यग् वेत्ति स्म यत् स्ववीर्येण तावद्दूरं यष्टिक्षेपणं तेन सर्वथाप्यशक्यमिति। अतो नूनमिदं भगवतो रामभद्रस्यैव माहात्म्यमिति विनिश्चित्य स भक्त्या दाशरथिं प्रणिपपात। रामोऽपि त्रिजटं विलोक्य मन्दं सिष्मिये।