अथैकदा यामिन्यां गोस्वामिपादस्तुलसीदासः कुतश्चन प्रदेशात्प्रत्याययौ। अस्मिन्नन्तरे कतिपये दस्यवस्तस्य पन्थानमरुन्धन्। ते च तं परुषया गिरा पप्रच्छुः - “कोऽसि त्वम्?” इति।
“युष्मत्सजातिरेवाहम्” इति स महात्मा प्रत्युवाच।
एनं स्वयूथ्यं मन्वानो दस्युपतिर्जगाद - “नूनमभिनवस्त्वममुं देशमुपागतोऽसीति तर्कयामि। तदेह्यस्माभिः सार्धम्” इति।
अथेतः परेण ते मोषकाः कस्यचिदाढ्यस्य सद्मनि स्तेयं विधातुं प्रचक्रमुः। दस्युनाथस्तु तुलसीदासं न्यगादीत् - “त्वं तावद् बहिरेव प्रतिपालय। यदि कमप्यवलोकयेस्तर्हि सत्वरं नः सूचयेथाः” इति।
तेषु दस्युषु गृहकुड्ये रन्ध्रं कृत्वाभ्यन्तरं प्रविष्टेषु सत्सु, तुलसीदासस्तु निजप्रसेवकात् कम्बुमुद्धृत्य प्राध्मासीत्। तं कम्बुरवं निशम्य सम्भ्रान्तास्ते तस्करा बहिर्निःसृत्य तं साधुमपि बलादाकृष्य तस्मात् प्रदेशाद् द्रुतं पलायाञ्चक्रिरे।
कञ्चन विजनं प्रदेशमासाद्य ते तं पर्यपृच्छन् - “किमर्थं त्वयेत्थं कम्बुर्नादितः?” इति।
“कश्चिद् दृष्टिपथं गतश्चेत् कम्बुर्नादयितव्य इति युष्माभिरेवाहमाज्ञप्तोऽभवम्। तदनुसारं मया समन्ततो दृष्टिर्विक्षिप्ता। तदा च मे चक्षुषोः पुरस्तादाविर्बभूव साक्षाद् भगवान् रामचन्द्रः। युष्माकमिदं स्तेयकर्म स पश्यतीत्याकलय्य सूचनार्थमेव मयायं निनादो व्यधायि” इत्युवाच।
“क्व नु खलु त्वयेक्षितः स भगवान् दाशरथिः?” इति ते पुनरप्राक्षुः।
“क्व नु वदानि? सर्वव्यापी खलु स ईश्वरः। यत्र यत्र मे दृष्टिः पतति, तत्र तत्रैव स मे साक्षात्क्रियते। तत्कथमहं तस्य कमपि देशविशेषं निर्दिशेयम्?” इति तुलसीदासः प्रत्युवाच।
तदाकर्ण्य ते दस्यवः ‘नूनमयं कश्चन महापुरुषः’ इत्यध्यवस्य तस्मिन् परमां श्रद्धामापन्नास्तं साष्टाङ्गपातं प्रणेमुः।