पावनतमे व्यासपूर्णिमादिवसे कदाचित् सद्गुरो रामदासस्य तपोवनं समेत्य भक्तजना गुरुवर्याय पूजननिमित्तं नानाविधानि प्राभृतानि समुपाजह्रुः। स च महात्मा रामदासो हिरण्यादीनि तानि वस्तूनि केवलं पाणिना संस्पृश्य स्वीकृतिमभिव्यञ्ज्य सकलान्यपि तान्याश्रमाध्यक्षस्याधीनानि व्यधत्त, समर्पकान् जनांश्चाशिषाऽन्वग्रहीत्।
तेषु च गुरुपादार्चनाय समवेतानां भक्तानां श्रेण्यां छत्रपतिः शिवराजोऽपि न्यषीदत्। पुरःसरेषु जनेषु यथार्हमुपायनानि समर्प्य प्रयातेषु सत्सु, शिवराजोऽपि स्वकीयमर्पणं कर्तुं गुरुवर्यस्य पुरस्तादुपतस्थे, साष्टाङ्गं च प्रण्यपतत्। तस्मिन्नेव क्षणे गुरुणा सः प्रत्यज्ञायि।
गुरुस्तु स्वस्मादासनादुत्थाय शिवराजं स्नेहेन परिष्वज्य सप्रमोदमिदमवोचत् - “अहो महाराज, त्वमप्यत्रोपस्थितोऽसि!” इति।
शिवराजस्तु न किञ्चित्प्रत्युवाच, अपितु एकस्मिन् भाजने पत्रमेकं निधाय तद्भाजनं गुरुदेवस्य पुरतो न्यदधात्। तदीयाक्ष्णोः समर्पणभावो व्यराजत, आनन्दाश्रूणि चास्य नेत्राभ्यां प्रासरन्।
रामदासस्तु शिवराजेनोपनीतं तत्पत्रमुन्मुच्य वाचयामास, यत्रेदं लिखितमासीत् - “मदीयं राजपदं, राज्यं, सकला च श्रीः गुरुदेवस्य पादपद्मयोः समुपहृता वर्तते” इति।
रामदासः पप्रच्छ - “इदं सर्वं मयि विन्यस्य त्वं नु किं चिकीर्षसि?” इति।
शिवराजोऽभ्यधात्— “भगवन्, प्रव्रज्यामास्थाय भवच्चरणपरिचर्यामेव कर्तुमिच्छामि।”
रामदासः प्रत्युवाच— “वत्स, त्वयायदद्ययावद् लोककल्याणायानुष्ठितं, तत्किं न मदर्चनं भवति? स्वराज्यमिदं सुराज्यपदव्यां प्रतिष्ठापय। यतिवत् निर्मोहेन चेतसा प्रजाः पालय। एतद्राज्यं तु संन्यासिनामेव; अतस्तस्य चिह्नत्वेन तव राष्ट्रकेतुर्भवतु काषायवर्णः ।”
ततः प्रभृति शिवराजस्य शासनस्य राष्ट्रकेतुः काषायवर्णो बभूव, स एवाद्यत्वे भगवद्ध्वज इति व्यपदिश्यते।