You are here: Home » stories » 78
77 
 79

प्रसादाधिगमः

कश्चिद्गृहाश्रमी कमपि महात्मानमुपसृत्य सप्रश्रयं प्रणिपत्य व्यजिज्ञपत् – “भगवन्! जीवने मम न लेशतोऽपि तुष्टिरुपलभ्यते। तेनैव हेतुना भवच्चरणमूलमहमुपागतोऽस्मि। मयेदानीं किमनुष्ठेयमिति कृपया मामनुशास्तु भवान्” इति।

इदन्निशम्य स महामुनिः प्रत्यवादीत् – “तुष्टिमधिगन्तुं किं किं नाम व्यधायि भवता?”। सः प्रत्युवाच – “किं वा नानुष्ठितमिति प्रष्टव्यम्। आयासो विहितो मया, पण्यव्यवहारोऽप्याचरितः, पुण्यायतनानि वीक्षितानि, अधित्यका अधिरूढाः, उपदेशवाक्यान्याकर्णितानि, ग्रन्थाश्चाधीताः, उपवनेषु व्यहारिषम्, मित्रोपदेशोऽपि लब्धः। एवंविधेषु सकलेषु कर्मसु कृतेष्वपि नासादितो मया मनागपि प्रसादः” इति।

ततः स महात्मा समभाषत – “अये, कतिपयान् दिवसानिममावसथमावसतु भवान्। ततः परं विमृशामः” इति।

तदनु स गृहस्थस्तस्मिन्नाश्रमे वस्तुं प्रचक्रमे। आश्रमपतिश्चैनमुदपानखनने कर्मणि न्ययुङ्क्त। सोऽपि गृही सादरं तत्कर्मान्वतिष्ठत्। गतेषु कतिपयेषु वासरेषु, तस्मिन्नन्धौ सलिलमुदसरत्। तदवेक्षितुमागतो महात्मा तं गृहस्थं पर्यपृच्छत् – “भद्र, कुत इदमम्भः प्रादुरभूत्? किमन्यतः कुतश्चिदेतत्समायातम्?” इति।

“नहि भगवन्! भूमेर्गर्भ एव सलिलं स्थितमासीत्। अस्माभिरपि जलसंस्थितिस्थानं लक्षणैरभिज्ञाय तत्रत्या मृदपसारिता, येनाम्भोऽधिगतम्” इति निवेदयामास सः। महात्मा पुनः पप्रच्छ – “किमयमायासः स्वल्पेनैव परिश्रमेण सिद्धः?”। सः प्रत्युवाच - “नहि स्वामिन्। अस्माभिर्द्वाभ्यां त्रिभिर्वा पुरुषैः कतिचिद्दिनानि यावद् घोरः प्रयासः कृतः” इति।

“अपि सैकस्मिन्नेव प्रदेशे मृदपनीता, आहोस्वित् पृथक्पृथक् स्थलेषु?” इति मुनिना पुनः पृष्टः स आह – “कथं नाम भिन्नभिन्नेषु स्थलेषु खननाद्वारि लभ्येत? अस्माभिस्त्वेकत्रैव भूभागे खनितम्” इति।

तच्छ्रुत्वा स महात्मा स्मयमानो जगाद – “ननु त्वया प्रसादाधिगमस्य पन्थाः पृष्टोऽभूत्? अमुष्योदपानखननस्यैव रीतिस्तुष्टिलाभायाप्यनुसर्तव्या। यदि नाम चेतस उपरि विद्यमाना विघ्नभूतान्यावरणाान्यपनीयन्ते, तर्हि प्रसादः स्वयमेव प्रादुर्भवेत्। तुष्टिर्ह्यस्माकं हृदयगुहायामेव निहितास्ति। ये प्रतिबन्धकास्त्वंशास्ते यत्नेन दूरीकरणीयाः। तदर्थं नैरन्तर्येण प्रयासश्चापेक्षितो वर्तते। न खलु प्रसादो बाह्यवस्तु किमप्यवलम्बते। मनसो नैर्मल्ये तु सम्पादिते सति, तुष्टिरात्मनैवोपलभ्येत” इति।

कश्चिद्गृहाश्रमी कमपि महात्मानमुपसृत्य सप्रश्रयं प्रणिपत्य व्यजिज्ञपत् – “भगवन्! जीवने मम न लेशतोऽपि तुष्टिरुपलभ्यते। तेनैव हेतुना भवच्चरणमूलमहमुपागतोऽस्मि। मयेदानीं किमनुष्ठेयमिति कृपया मामनुशास्तु भवान्” इति।

इदन्निशम्य स महामुनिः प्रत्यवादीत् – “तुष्टिमधिगन्तुं किं किं नाम व्यधायि भवता?”। सः प्रत्युवाच – “किं वा नानुष्ठितमिति प्रष्टव्यम्। आयासो विहितो मया, पण्यव्यवहारोऽप्याचरितः, पुण्यायतनानि वीक्षितानि, अधित्यका अधिरूढाः, उपदेशवाक्यान्याकर्णितानि, ग्रन्थाश्चाधीताः, उपवनेषु व्यहारिषम्, मित्रोपदेशोऽपि लब्धः। एवंविधेषु सकलेषु कर्मसु कृतेष्वपि नासादितो मया मनागपि प्रसादः” इति।

ततः स महात्मा समभाषत – “अये, कतिपयान् दिवसानिममावसथमावसतु भवान्। ततः परं विमृशामः” इति।

तदनु स गृहस्थस्तस्मिन्नाश्रमे वस्तुं प्रचक्रमे। आश्रमपतिश्चैनमुदपानखनने कर्मणि न्ययुङ्क्त। सोऽपि गृही सादरं तत्कर्मान्वतिष्ठत्। गतेषु कतिपयेषु वासरेषु, तस्मिन्नन्धौ सलिलमुदसरत्। तदवेक्षितुमागतो महात्मा तं गृहस्थं पर्यपृच्छत् – “भद्र, कुत इदमम्भः प्रादुरभूत्? किमन्यतः कुतश्चिदेतत्समायातम्?” इति।

“नहि भगवन्! भूमेर्गर्भ एव सलिलं स्थितमासीत्। अस्माभिरपि जलसंस्थितिस्थानं लक्षणैरभिज्ञाय तत्रत्या मृदपसारिता, येनाम्भोऽधिगतम्” इति निवेदयामास सः। महात्मा पुनः पप्रच्छ – “किमयमायासः स्वल्पेनैव परिश्रमेण सिद्धः?”। सः प्रत्युवाच - “नहि स्वामिन्। अस्माभिर्द्वाभ्यां त्रिभिर्वा पुरुषैः कतिचिद्दिनानि यावद् घोरः प्रयासः कृतः” इति।

“अपि सैकस्मिन्नेव प्रदेशे मृदपनीता, आहोस्वित् पृथक्पृथक् स्थलेषु?” इति मुनिना पुनः पृष्टः स आह – “कथं नाम भिन्नभिन्नेषु स्थलेषु खननाद्वारि लभ्येत? एकत्रैव भूभागेऽस्माभिः खनितम्” इति।

तच्छ्रुत्वा स महात्मा स्मयमानो जगाद – “ननु त्वया प्रसादाधिगमस्य पन्थाः पृष्टोऽभूत्? अमुष्योदपानखननस्यैव रीतिस्तुष्टिलाभायाप्यनुसर्तव्या। यदि नाम चेतस उपरि विद्यमाना विघ्नभूतान्यावरणाान्यपनीयन्ते, तर्हि प्रसादः स्वयमेव प्रादुर्भवेत्। तुष्टिर्ह्यस्माकं हृदयगुहायामेव निहितास्ति। ये प्रतिबन्धकास्त्वंशास्ते यत्नेन दूरीकरणीयाः। तदर्थं नैरन्तर्येण प्रयासश्चापेक्षितो वर्तते। न खलु प्रसादो बाह्यवस्तु किमप्यवलम्बते। मनसो नैर्मल्ये तु सम्पादिते सति, तुष्टिरात्मनैवोपलभ्येत” इति।

77 
 79
Search
stories/78.txt · Last modified: 2026/01/31 12:42