83 
 85

यस्मिन् काले यदुचितम्

आखेटरस्यया कश्चिन्महीपालो गहनं वनं प्रविवेश ह। तस्यां च रजन्यामटव्यामेव कल्पितवसतिरसौ नृपः प्रसुप्तो निशीथे सहसैव प्रबुबुधे। प्रबुध्य चात्मनो वपुषि भीषणमेकं भुजङ्गमासीनमद्राक्षीत्। ‘यद्यङ्गकम्पं विदध्यामहं तर्ह्ययं फणी मां दन्दश्यात्’ इति सञ्चिन्त्य निस्पन्दमेव शिश्ये स महीपतिः।

अथ नातिचिरादेव कश्चित्तस्करो निःशब्दपदं तच्छिबिरं विवेश। प्रविश्य च तेन महीपतेरङ्गे शयान उरगो ददृशे। स तदाशु ततो निर्गत्य पिटकमेकमुपाहृत्य तस्मिंस्तं पन्नगं शनकैः प्रक्षिप्य बहिर्निन्ये तत्याज च। एतावति स नृपतिस्तमुपसृत्य कृतज्ञतापूर्वकं दशसुवर्णमुद्रा उपायनीकृत्य तं मोषकं विससर्ज।

अथ परेद्यू राजपुरुषा अमुमेव तस्करं निगृह्य नृपतेः समक्षमानीय व्यजिज्ञपन् – “देव, ह्यो निशायामसौ स्तेयार्थं भवदीयं शिबिरं प्राविक्षत्” इति। तच्छ्रुत्वा स भूपतिराज्ञापयामास – “दण्डरूपेणास्मै दश रौप्यमुद्रा दीयन्ताम्” इति।

अथ तत्रस्थः कश्चित् सभासद् न्यवेदयत् – “स्वामिन्, ह्यो निशि भवतोऽसवोऽमुनैव परिरक्षिताः। तत् क्षान्तिमर्हत्ययम्” इति। नृपतिः प्रत्युवाच – “विदितमेवैतन्मम यदमुना ह्यो ममासवस्त्राता इति। तस्य तत्कर्मणः कृते समुचितः पुरस्कारो मया ह्य एव प्रादायि। अद्य पुनरमुना यच्चौर्याय प्रायतत, तस्यैव कृते दण्डोऽयं मया व्यधायि” इति।

अथ तेन तस्करेण कोशाध्यक्षाय दण्डशुल्कं प्रादीयत। तदा कौतुकान्वितः स कोशाध्यक्षस्तं पप्रच्छ – “भद्र, ह्यः स्तेयार्थमुपागतोऽपि त्वं चौर्यकर्म विहाय किमिति नृपतेः प्राणत्राणे प्रायतथाः?” इति।

चौरः प्रत्यगदत् – “आर्य! स्तेयमेव ममाजीविकेति सत्यमेतत्, किन्तु ननु मनुष्योऽप्यहम्। परप्राणपरित्राणं हि मानवधर्मः प्रथमः कल्पते। तदेव मया प्रथममनुष्ठितम्” इति।

‘यस्मिन् काले यत् कार्यं विधातव्यं, तत्तस्मिन्नेव काले समाचरणीयम्। नृपेणामुना तस्करेण च तदेवानुष्ठितम्’ इति मनसि चक्रे स कोशाध्यक्षः।

83 
 85