8 
 10

दैवपुरुषकारविमर्शः

शकटालनामा कश्चन कुलालः किल विधिप्राबल्यवादिनां धुरीणो बभूव। प्रयत्नशतादपि प्राक्तनमेव कर्म बलवत्तरमिति दृढप्रत्ययः सोऽभूत्। यतः 'प्राग्जन्मार्जितकर्मणैव सकलं संपद्यते हीप्सितम्' इति तस्य मतिरासीत्। स खलु निखिलस्यापि कार्यजातस्य निदानं दैवमेवेति समुदघोषयत्। अस्य तु मतमिदं कतिपये विपश्चितः स्वयुक्तिभिर्बिभिदुः, तथापि 'विधिरेव बलीयान्' इत्यमुष्माद्विश्वसितेर्न मनागपि स विचचाल।

वृत्तिरस्य मृद्भाण्डनिर्माणमयी। श्रमणभगवति महावीरे तस्य भक्तिरचञ्चला समजनि। अथैकदा स तं वर्धमानजिनमुपसृत्य पप्रच्छ — “भगवन्! यन्मया 'पौरुषाद्विधिरेव बलवान्' इत्यास्थीयते, तत्र मे मतिर्दृढीयसी। किं नु खल्वेष मम निश्चयः स्थाने न वर्तते?” इति।

इति तेनानुयुक्तो मुनिराट् मुहूर्तमात्रं तूष्णीम्बभूव। अथानन्तरं तमेवमन्वतर्कयत् — “सखे! कश्चिच्चेत् त्वया विनिर्मितान् सर्वानपि घटानाचूर्णयेत्, तदा त्वं किं नाम समाचरेथाः?”

“अहं तममुं लगुडप्रहारैः संचूर्णयितास्मि। महता खलु प्रयासेन निर्मितेषु भाण्डेषु विध्वंसितेषु कथं नु मे प्राणयात्रा प्रवर्तेत?” इति शकटालोऽभ्यधात्।

“कश्चिद्यदि ते समक्षमेव वित्तमपजिहीर्षेत् तर्हि…?”

“तं निगृह्य निर्दयं ताडयिताहे। स्वेदोपार्जितस्य मे द्रव्यस्य चौर्ये तस्य दुरात्मनः को नु नामाधिकारः?”

“कश्चिदथ ते गृहिण्याः सतीत्वं जिहीर्षेच्चेत्?”

“शान्तं पापम्! प्रतिहतममङ्गलम्! न खलु कश्चन मे दयितायाः शीलं लङ्घितुमुत्सहेत। यदि तु कश्चिद् दुर्मतिरेवं प्रयतते, नूनमसौ कृतान्तसदनं व्रजेत्।”

“अथ चेत् त्वं गाढग्लानोऽभविष्यस्तर्हि…?”

“भिषजो निदेशमनुसृत्य भैषज्यमासेविष्ये। आरोग्येणैव हि स्वव्यापारेषु प्रवर्तितुं पारयामि।”

इति निशम्य स यतिवर्यः स्मितपूर्वकमभिदधे — “अयि भोः! एषु तावत् सर्वेष्वपि प्रसङ्गेषु क्व नु ते विधिप्राबल्यसिद्धान्तोऽन्तरधात्? विधिरेव गरीयानिति चेत्ते मतिः, तर्हि घटविनाशवेलायां, वित्तविलोपसमये, दाराधर्षणप्रसङ्गे, गदाक्रान्तावसरे वा त्वया किमपि नाकरिष्यत। 'सर्वं विधिरेव विधास्यति' इति विचिन्त्य तूष्णीमासितव्यमभविष्यत्। स्यान्नाम ते विधिबले प्रत्ययः, किंतु नैव जातुचित् पौरुषमुज्झितुमर्हसि।”

विधूतसकलसंशयस्तु स कुलालस्तं भगवन्तं शिरसा प्रणम्य स्वगृहं ययौ।

8 
 10