भूषणनिस्पृहता
कुम्भसम्भवस्य मुनेरगस्त्यस्य धर्मपत्नी लोपामुद्रेति नाम्ना किल विश्रुतासीत्। सा किल स्वामिना समं पुण्यतमे तपोवने उवास। तस्य महर्षेः सविधमुपेत्य तदनुग्रहाशीर्भिः स्वमात्मानं पावयितुकामः कश्चिन्महीपतिः सदारः पौनःपुन्येन तदाश्रमपदमभिपेदे। प्रत्यवसरेषु तेषु पार्थिवमहिषी सर्वालंकारविभूषिताङ्गी समदृश्यत। तामेवंविधामवलोक्य लोपामुद्राया अपि हृदि भूषणलिप्सा समुदपद्यत।
अथैकदा सा भर्तारमित्थं बभाषे - “आर्यपुत्र! पश्यतु तावत्, पार्थिवपत्न्याः पार्श्वे कति नाम मण्डनानि विद्यन्ते! मम पुनरङ्गयष्टौ एकमपि भूषणं न दरीदृश्यते। अपि नामैकमपि परिष्कारं लब्धुं पारयेयम्?” इति।
तदा तामित्थं सान्त्वयन् स कुम्भयोनिः प्रत्युवाच - “कल्याणि! अलमनया चिन्तया। मा स्म खिद्यथाः। नचिरादेव राजानमभ्यर्थ्य कण्ठालंकरणमेकमधिगम्य तुभ्यमहं प्रदातास्मि” इति।
अथान्यस्मिन्नवसरे स मुनिर्नृपसद्म समुपसृत्य कण्ठभूषणमेकमयाचिष्ट।
“किमेकम्, बाढम्! बहून्यपि भूषणान्यहं भवते वितरीतास्मि” इत्याह स भूपतिः।
“नास्ति मे प्रयोजनं बहुभिर्मण्डनैः। अलमेकेनैव। परं तत् किल भवता स्वभुजवीर्येणार्जितं भवेत्, न तु प्रजावित्तोपजीविना विरचितम्।”
“यदत्र प्रजाभिः करशुल्कादिरूपेण धनमुपाह्रियते, तदेव मयालंकरणनिर्माणविधौ विनियुज्यते” इत्यवदन्नरपतिः। ईदृशस्य परिष्कारस्य परिग्रहं प्रत्याचक्षाणः सोऽगस्त्यः स्वाश्रमं प्रतिनिवृत्य कलत्रमवोचत् - “प्रिये! तस्य पार्थिवस्य निकटे स्वोपार्जितवित्तविरचितं काञ्चनाभरणमेकमपि न किलाभूत्। अत एव प्रजाकोषसम्भवस्य हेमभूषणस्य स्वीकारो मया निरकारि” इति।
तच्छ्रुत्वा लोपामुद्रा व्याजहार - “नाथ! साधु खलु युष्माभिरनुष्ठितम्। प्रजाकोषोपजीवीनि भूषणानि परिगृह्यन्ते चेत्, प्रजावित्तमेव वस्तुत उपभुक्तं भवेत्। तस्मिंश्च प्रजावित्ते धर्मार्जितो यथांशस्तथाधर्मांशोऽपि नूनं संसृज्येत। अधर्मकलुषितस्य तस्य वित्तस्योपयोगो नौ पुण्यसञ्चयं क्षप्यात्। न चैतन्न्याय्यम्। युष्मदीयं तप एव मे परमं विभूषणम्। तस्माद्धेममण्डनविरहेऽपि न मे काचन क्षतिर्विद्यते” इति।