मारुतेर्निर्व्याजभक्तिः
दशास्यनिधनादनु साकेतं प्रत्युपेयुषि काकुत्स्थे, अमुष्मिन्ननितरसाधारणीं भक्तिमुद्वहन्नाञ्जनेयोऽमुं यत्र क्वापि व्रजन्तं छायेवानुससार, न हि लेशमप्यमुष्य विप्रकर्षं विषेहे।
कदाचिदेकान्ते विश्रामधाम्नि सीतां प्रतीक्षमाणे दाशरथौ, एनमुपससर्प मैथिली। अमुष्याः पदवीमनुगच्छन्तं मरुत्सुतं वीक्ष्य स्मितमुकुलितमुखो जगाद राघवः - “जानकीमृते नान्यः कोऽपि प्रवेष्टुमर्हत्यस्मिन् प्रकोष्ठे” इति। इदमाकर्ण्य विमूढचेताः स्वामिन आशयमजानन् पर्यपृच्छत् प्लवङ्गमः - “ननु तवैव दासोऽस्मि, तत्कथं मे प्रवेशं निरुणत्सि?” इति।
“आलोकय तावन्मारुते, निटिले सिन्दूरं लिम्पति सीता, अत एवात्र प्रवेष्टुमधिकुरुते” इति निगदति रामभद्रे, खिन्नमनाः स कपिप्रवरो बहिर्जगाम।
परेद्युरुषसि कृतस्नानां भाले सिन्दूरं धारयन्तीमेनां विलोक्यानुयुयोज हनूमान् - “देवि, किमर्थमयं सिन्दूरलेपाटोपः?” इति।
“तव नाथस्य चिरायुषं कामयमाना सिन्दूरमिमं वहामि” इत्यसौ व्याजहार।
इदमाकर्णयतो हनुमतो मानसे कश्चनाभिनवोपायो दिद्युते। स द्रागेवापणमवगाह्य महास्यूतभृतं सिन्दूरमुपाजहार। ततो निजवासस्थानमुपेत्य, कृतमज्जनः सर्वाङ्गं सिन्दूरेणालिपत्। ततश्च सीतारामयोः पुरस्तात् प्रादुरासीत्। अमुं तथाविधमवलोक्य द्वावप्युच्चैर्हासं जहसतुः। “कोऽयमपूर्वो वेषपरिग्रहस्ते?” इति पर्यपृच्छत् काकुत्स्थः।
“त्वदीयां दीर्घायुष्यावाप्तिमभिकाङ्क्षन्नहं सर्वगात्रेषु सिन्दूरमलिपम्। समग्रं वर्षसहस्रं सुखेन जीव्यास्त्वमिति मे नित्यं प्रार्थना” इति न्यगादीद्धनुमान्। इदं निशम्य रामो भृशतरं जहास, परं जानक्यास्तु लोचने हर्षाश्रुपरिपूर्णे समपद्येताम्।
अद्याप्यनुरागस्य साक्षाद्वर्णः सिन्दूरवर्ण एवेति लोकप्रतीतिर्जाज्वल्यते। अत एवोत्तरभारते मारुतेरायतनेषु तैलमिश्रितेन सिन्दूरेणामुष्य प्रतिमामनुलिम्पन्ति। बहुत्रादः प्रसादरूपेणापि प्रदीयते।