परमार्थशिल्पम्
सुदूरादपि समाजग्मुर्जिज्ञासवोऽमुष्य योगिनः सदुपदेशामृतं निपीतुम्, अन्ते च स विनेयजनप्रश्नान् समाधत्ते स्म । कदाचिदसौ देशिको बभाषे—“अद्यतनो जनो मोहमायानिगलबद्धः स्वार्थमेवानुसन्दधानः परमार्थावमर्शं सर्वथा विस्मृतवान् । एवं सति कुतो नाम भगवत्साक्षात्कारः कुतो वा कैवल्यपदलाभः” इति । तदन्ते कश्चित् सुधीस्तमुपससर्प पप्रच्छ च—“परमार्थमधिकृत्य जनान् प्रबोधयसि त्वम्, अपि नाम त्वया स्वयमेव कदाचिदीश्वरः साक्षात्कृतः” इति ।
स्मयमानो मुनिः प्रत्युवाच—“अहं तु प्रत्यहममुं देवदेवं साक्षात्करोमि । यद्येवमेव त्वमपि यतेथास्तर्हि नूनं तद्दर्शनमवाप्नुयाः” इति ।
तदाकर्ण्य सञ्जातोद्वेगः स पुमान् प्रोवाच—“अहं खल्वा बहुभ्यो हायनेभ्यो भगवन्तमहर्निशं परिचरामि । तथाप्यद्यावधि नासौ मया साक्षात्कृतः” इति ।
अमुष्योद्वेगमालक्ष्य मन्दं हसन् मुनिर्जगाद—“न केवलं काचनानुष्ठानपद्धतिर्भगवत्प्राप्तिः, अपि तु तदेकं विशिष्टं शिल्पम्” इति ।
श्रोतुः प्रश्नगर्भितं वदनं विलोक्य सोऽनुबबन्ध—“पद्धतिशिल्पयोः को वा भेद इति खलु ते प्रश्नाशयः ? ब्रवीमि तद्विषये ।
प्रासादमेकं निर्मातुं यतसे त्वमिति कल्पय । तदर्थं केनचिद्वास्तुविद्याविशारदेन तस्य प्रासादस्य रेखाचित्रं भूचित्रं वा त्वया निर्मापणीयम् । तस्मिन् रेखाचित्रे निर्मितेऽपि तत् समवलोक्य किं नाम त्वं प्रासादं निर्मातुं प्रभवितासि ? नैव ! यतो हि तत्र यल्लिखितं तत् परिज्ञातुं त्वं नेशिषे । तदवबोधनाय तदाधारेण वास्तुकर्मणे वा त्वया कश्चित् स्थपतिः शिल्पी वा द्रष्टव्यः । स खल्वमुष्य रेखाचित्रस्याधारेण त्वदभीष्टं सौधं निर्माति, यतस्तच्चित्रमसाववगच्छति । तद्धि चित्रं नाम पद्धतिः, तामधिगम्य शिल्पनिर्माणं तु पृथगेव । ईश्वरसाक्षात्कारस्य मार्गान् सर्वेऽपि विदुः, किन्तु तं मार्गं सम्यगवबुध्य स्वकौशलमुपयुज्य चेश्वरप्राप्तिर्नाम किञ्चनालौकिकं शिल्पम् । यदा तदिदं त्वं बुध्येथास्तदैवेश्वरं साक्षात्कुर्याः” इति ।
देशिकवचनामृतेनैतेन पूजया सार्धमितोऽप्यधिकः प्रयासो ज्ञानञ्चापेक्ष्यत इति स व्यनिश्चिकाय, मुनिञ्च प्रणम्य सानन्दं प्रतस्थे ।