क्षीरन्यायेन पारमार्थिकतत्त्वबोधः
बभूव पुरा कश्चन जनपदः। अमुष्मिन् वसद्भिः कृषीवलैः सीरकर्मणा साकं गोसंरक्षणमप्यन्वष्ठीयत। गोरसस्य विक्रयणमेवामीषां द्रविणार्जनस्य प्रकृष्टं निदानमभूत्।
अमीषु केचन रथाङ्गपाणिमाराधयामासुः, अपरे चन्द्रशेखरम्, इतरे हव्यवाहनम्, अन्ये च जगदम्बिकाम्। 'अस्मदीया एव देवता सर्वातिशायिनी' इति निजनिजमतनैराग्र्येणैते पामराः सर्वदा मिथोऽसूयन्।
अथ कदाचिदेको मस्करी तमुद्देशमाजगाम। तमवलोक्यैव सद्यः समुत्पन्नकुतूहला विविधसम्प्रदायाग्रेसराः स्वमतस्यैवोत्कर्षं प्रतिष्ठापयिषवस्तं यतिमप्राक्षुः।
तानवलोक्य मन्दस्मितविकसितमुखः स परिव्राड् व्याजहार— “पयोविक्रयिणः खलु यूयं सर्वे? ब्रूत तावत्, युष्माकं केषां वेश्मसु कति धेनवो विद्यन्ते? केन च वाहनेन युष्माभिरदः पयः सङ्ग्रहणकेन्द्रं नीयते?” इति।
“पञ्चाशद्गावः किल मदीये गोष्ठे रक्ष्यन्ते, यन्त्रशकटेन चाहमदः पयो नयामि” इति जगाद कश्चित्।
“दश धेनवो ममावरोधे वसन्ति, द्विचक्रिकया चाहमदः प्रापयामि” इत्यपर आचष्ट।
“धेनुत्रयमेवास्मद्गेहे विद्यते, पदचारेणैव चाहममुं रसं वहामि” इत्यन्यो भाषिष्ट।
“तस्मिन्दुग्धसङ्ग्रहणकेन्द्रे वणिग्भिः किं क्रियते? केन निकषेण ते युष्मभ्यं मूल्यं प्रयच्छन्ति?” इत्यनुयुयुजे स यतिः।
“प्राथम्येन खल्वेते मापनयन्त्रेणामुष्य पयसः शुद्धतां स्निग्धतां च परीक्षन्ते। अमुमेव गुणोत्कर्षमवलम्ब्य मूल्यमपि निर्णीयते” इति समगिरन्त कृषीवलाः।
“कया रीत्याऽदः पय आनीयत इत्येतत् किं न विमृश्यते तैः?” इति पप्रच्छ यतिः।
“न हि न हि! पूर्णतोऽस्मदधीन एवायं परिवहनरीतिः। किमर्थं तत्रामीषामाग्रहो भवेत्? पयसो नैर्मल्यमात्र एवामीषामादरः” इति कश्चित् कृषकः स्पष्टीचकार।
तदाकर्ण्य स महात्मा प्रोवाच— “भो मित्राणि! अनेनैव पथा मानवीयं जीवितमपि सम्प्रवर्तते। नानाविधा भवेयुर्युष्माकमुपासनाविधय उपास्यदेवताश्च। तथापि यदुपास्यमदः परंब्रह्मतत्त्वं त्वेकमेवाद्वितीयम्। कीदृशं युष्माकं चरित्रमिति सर्वेश्वरो युष्मदीयजीवितस्य सात्त्विकतामेव निकषीकृत्य परिचिनोति। तस्मादात्मनश्चरित्रशुद्धिसम्पादने एव यूयं प्रकृष्टं यत्नमातिष्ठेध्वम्। सद्विचारः परोपकृतिरुदात्तमाचरणमित्येते सद्गुणा एव जीवने प्राधान्यमर्हन्ति। साम्प्रदायिकं मतं निजश्रद्धा बाह्या पूजापद्धतिरित्यादयो विषया वस्तुतोऽप्रधानभूता एव। अतस्तेषु बाह्याडम्बरेषु वृथाऽभिनिवेशमपहाय निजजीवितस्य शुचितामुत्कर्षयितुमेव यूयं प्रयतेध्वम्” इति।