You are here: Home » stories » 110

तत्त्वतो लाभहानिविमर्शः

देशिकान्तिकमुपेत्य विषण्णमनाः कश्चिच्छ्रेष्ठियुवा सुभृशं व्यलपत् — “भगवन् ! अतीव व्यसनार्दितोऽस्मि वाणिज्यापचयेन। अकिञ्चनोऽभवम्। न खल्ववैमि किमत ऊर्ध्वमाचरेयम्। अमुमर्थं कस्मिश्चिदप्यप्रकाश्य दिगन्तरप्रस्थानमात्मव्यापादनं वैकमेव शरणममुष्य हतजीवितस्य सम्प्रति” इति। “अवैमि ते कृच्छ्रम्” इति देशिको व्याजहार — “वणिक्प्रकृतिकोऽसि। अर्थागमापायौ सम्यग्विचार्यैव खलु युष्माकं कर्मसु प्रवृत्तिः। तस्मात्किं ते ननाश किमवापि चेत्यस्मिन्जीवने तावद्विमृशामः” इति। अमुं प्रस्तावमन्वमन्यत स ।

अथैतस्मै किमपि लेख्यपत्रं वितीर्य “यन्ननाश तदमुष्य वामपार्श्वे यच्चावापि तद्दक्षिणभागे च त्वया विलिख्यताम्” इत्यादिश्य, वाणिज्यार्थं कियानर्थो न्यधायि, निधिशालायां कियद्धनमविद्यत, सम्प्रति कियच्छेषम्, केन कियदाच्छेदि — इत्येवमादीनंशान् सर्वानप्यलीलिखद्गुरुः। श्रेष्ठिना च वामभागे सर्वमदः समलेखि। “इदानीममुष्य दक्षिणभागस्य पूरणमुपक्रम्यताम्” इत्युक्त्वा देशिकोऽनुयुयुजे — “किं जहौ त्वां सहधर्मिणी?” इति।

“न सा माममुञ्चत्, सा हि गृह एव वर्तते” इति स प्रत्युवाच।

“तर्ह्यदो दक्षिणत आलेख्यम्” इत्युपदिश्य पुनरप्यनुयुयुजे — “कच्चित्ते कुमारा बन्धनमापुः?” इति।

“नेत्यवोचद्वणिक्।

“इदमपि तत्रैव लिख्यताम्” इत्युदीर्य — “कच्चिन्ननशुरमूनि ते विद्याप्रमाणपत्राणि? किं ह्रासमाप ते नैपुण्यम्? किं वा विलुप्तस्तवानुभवः?” इत्येवमादीन् प्रश्नान् पप्रच्छ। “नेत्युदाहरन् सर्वांस्तानंशान् दक्षिणपार्श्वे लिलेख सः। तेनामुष्य दक्षिणभागस्य पङ्क्तिरतिमात्रं ववृधे।

अदो दर्शंदर्शं तस्य स्वान्त उत्तरोत्तरमुत्साहो ववृधे। स गुरुं बभाषे — “भगवन् ! किमुपदिदिक्ष्यते भवता तत्सर्वमिदानीं मया सम्यगवबोधि। अर्थेन क्रेतुमशक्या बहवो भावा मयि विद्यन्ते। निरामयत्वम्, अवष्टम्भः, अकृत्रिमस्नेहसिक्ताः कलत्रपुत्रादयः, समुत्साहका वयस्याः, अनर्घोऽनुभव इत्येवमादयोऽमी मय्येवावतिष्ठन्ते। वित्तविप्रणाश एव न खलु परमार्थतो नाश इति मया प्रत्यज्ञायि। अत ऊर्ध्वं भूयोऽपि यतमानो नवनवोन्मेषशालि वाणिज्यमारभ्य श्रियमाप्स्यामि” इति।

Search
stories/110.txt · Last modified: 2026/03/12 14:15