राजभक्तिर्बन्धुस्नेहाद्गरीयसी
कुशलो नाम नयकोविदोऽमात्यवरः सारङ्गिपुरे किल बभूव। प्रज्ञया वाचस्पतिमिवासावमात्यो निरतिशयां सत्यसन्धतामसाधारणीं स्वामिभक्तिं च पुपोष।
श्वशुरवेश्म जातुचिद्देशान्तरादागतोऽस्य जामाताऽधिजगाम। दिनावसाने च मिथः सम्भाषमाणौ तावापणवीथ्यां विचेरतुः। अथ पप्रच्छैनं जामाता - “किं शक्यं निगदितुमार्य, भवत्स्वामिनः सविधे कियन्त्यश्ववृन्दानि कियन्ति च गजानीकानि विद्यन्त इति? कीदृशी चात्रत्यानां चमूसम्पत्?” इति।
अमात्योऽप्राक्षीत् - “किमनेन वृत्तान्तेन ते प्रयोजनम्?” इति।
“न किञ्चिदस्ति विशिष्टं कारणम्, केवलं कौतुकपरतन्त्रोऽनुयुञ्जे” इति जामाता प्रत्यवादीत्।
“न साम्प्रतमस्मिन्नर्थे मे किञ्चिद् व्याहर्तुम्। राष्ट्रस्यान्तरङ्गिकं रहस्यमिदम्” इत्यमात्योऽवोचत्।
“आर्य, भवदीयो जामाता खल्वहम्। किं मय्यपि न विश्वसिति भवान्? भवत्कुटुम्बाङ्गोऽहं नितान्तं विस्रम्भभूमिरस्मि। भवदुदितं न कुत्रचिदन्यत्र प्रकटीकरिष्य इति शपे। नाहममूनर्थानन्येभ्यो निवेदयेयं कण्ठगतेष्वपि प्राणेषु” इति व्याचचक्षे जामाता।
“प्रमुदितोऽस्मि वत्स, तव विस्रम्भार्हतामवलोक्य। तथापि कुटुम्बादपि राष्ट्रमेव गरीयः। राष्ट्रसम्बद्धं वृत्तान्तं स्वजनानामग्रतोऽपि न जातुचिद् व्याहरेयमिति पुराहं शपथमकार्षम्। सत्यसन्धस्ते श्वशुरः कृच्छ्रेऽपि प्रतिज्ञाप्रतिपालकश्चेत्येतन्मनसि कृत्वा गर्वमुद्वह। परं राष्ट्रस्यान्तरङ्गिकान् रहस्यार्थान् ज्ञातुं मा स्म यतिष्ठाः” इति मञ्जुलेन स्वरेण कुशलः प्रोवाच।
परमां मुदमाप जामाता श्वशुरस्यातुल्यां सत्यसन्धतामनन्यां च स्वामिभक्तिं निशाम्य।