You are here: Home » stories » 115
114 
 116

आचरणं विना उपदेशो निष्फलः

प्रववृते किल कदाचनामुष्य कस्यचिद् योगिनो धर्मोपदेशसत्रम्। समवेतास्तत्रागणितजनसन्दोहा मुहुरुपतस्थुः। “दर्पद्वेषादीन् मोहादिदोषानपास्य सात्त्विकी जीवनपद्धतिराश्रयणीया” इत्येष सन्ततं समभ्यागच्छतो जनान् अन्वशात्। बभूवुश्च भूयांसोऽमुष्यामृतोपमेषु वचस्सु श्रद्दधानाः।

उपससादाथ कश्चिच्छुश्रूषुरेनं पप्रच्छ च—“भगवन्! अन्वहमतिश्रद्धया भवतामुपदेशामृतं निपीयापि न कापि मे स्वात्मनि परिणतिः सञ्जायते। तत् किमर्थमेतादृशी विडम्बना?” इति।

“तात! कुतस्त्वमिहाभ्यागतोऽसि?” इति तं जगाद स योगी।

“भगवन्! नातिदवीयसोऽस्माद् ग्रामादुपेयिवानस्मि” इति प्रत्यवादीत् सः।

“बाढम्! केनोपायेन त्वदीयग्राम आसाद्यते?” इत्यनुययोज मुनिः।

“इतस्तत्र गमनाय विद्यते कश्चन पन्थाः। तमास्थाय पद्भ्यां तुरगशकटेन बलीवर्दयानेन वा प्रस्थाय मदीयो ग्रामोऽधिगम्यते” इति तेनावाचि।

“किमत्रैवासीनेन त्वया निजग्राम आसाद्येत?” इति पर्यपृच्छद् गुरुः।

“अधिगन्तुं हि ग्रामं यानमधिरोहणीयं पद्भ्यां वा गन्तव्यमेव खलु! कथं तदन्यथा शक्येत?”

“‘इत्थं ग्रामः प्राप्यते’ इति मार्गोपदेशस्य श्रवणमात्रेण किं त्वदीयग्राममधितिष्ठेः?”

निशम्यैतद् विहस्य जगाद स पुमान्—“कथमिदं सम्भाव्येत? ग्रामं जिगमिषुणा तत्सम्बद्धो मार्गोऽवश्यं लङ्घनीय एव। मार्गक्रमणमन्तरेण ग्रामः कथमपि नासाद्यत” इति।

“एवमेव खलु साध्यते जीवने प्रगतिः। यथा ते ग्राममुपगन्तुं विविधाः पन्थानः सम्भवन्ति, तथैवात्मोन्नतिमधिगन्तुमपि विद्यन्त एव कतिपये मार्गाः। तेष्वन्यतमं मार्गमास्थायैव प्रगतिरवाप्येत, न तु केवलमुपदेशाकर्णनेन। तस्मात् कमपि पन्थानमनुतिष्ठ। भोक्ष्यसे चाचरितानुगुणं फलम्। न हि साधीयसी भवत्याचारमन्तरेण केवला फललिप्सा” इत्यमुं सम्यग्व्यजिज्ञपत् स धीरः।

114 
 116
Search
stories/115.txt · Last modified: 2026/03/13 13:40