You are here: Home » stories » 122
121 
 123

विपन्नोद्धारणं ज्यायः

प्राच्यद्वीपेऽमुष्मिन् जपानाख्ये भगवतः शाक्यमुनेर्महिम्नि विजृम्भमाणे वृत्तमिदमाचक्षते। समन्ततो निरस्तसमरकोलाहलायां प्रशान्तसर्वाशायां तस्यां वेलायां वृत्तिं मुमुचुर्नाल्पशः शस्त्राजीवाः।

तेष्वन्यतमस्य कस्यचिद्भटस्य क्षुत्क्षामकुटुम्बिनो जठरानलनिर्वापणाय सकृदप्यन्नमविन्दमानस्य सन्तापः परां कोटिमारुरोह।

आवासस्यास्य नातिदवीयोऽविद्यत किञ्चन सुगतमन्दिरम्, यत्राध्यासाञ्चक्राते द्वावाश्रमिणौ। तच्चैत्यमासाद्य तौ श्रमणौ प्रणिपत्य निजगेहदुर्गतिमाख्याय “आर्यौ ! काञ्चिदाजीविकां कल्पयेतं मे” इति कृपणं ययाचे सः।

तच्छ्रुत्वा तयोरन्यतरो जगाद—“नास्त्येवास्मिन् स्थाने कस्याश्चिदपि जीविकायाः सम्भवः” इति। किञ्चित्कालं तूष्णीं स्थित्वा पुनरपि दीनस्वरं बभाषे स भटः—“ह्यस्तनाद्दिनादारभ्य न जज्वाल मे मन्दिरे चुल्ली, तस्मात् स्तोकमपि वा वित्तसाहाय्यं वितरेतम्” इति।

तदीयां तादृशीं दुर्दशाममृष्यमाणस्तयोरितरः प्रव्रजित उत्थाय सुगतप्रतिमायाः प्रभामण्डलमेवापनीय तस्मै भटाय प्रायच्छदादिदेश च—“अदः प्रभामण्डलं विक्रीय प्राप्यमाणेन धनेन जहिहि स्वदुर्दशाम्” इति।

तदादाय स सैनिकः स्वगृहं प्रतस्थे। सहचरस्यामुमविचारितं व्यापारमुपलभ्य कोपानलसन्दह्यमानः प्रथमः श्रमणो निर्भर्त्सयन्नाह—“कथमसाधु व्यवाहार्षीः ! यदस्मदुपास्यदेवस्यैव प्रभामण्डलममुष्मै प्रादाः ! सर्वथा किल्बिषावहमेतत्” इति।

तदा स भिक्षुः प्रत्याचख्यौ—“प्रभामण्डलविप्रयोगात् किमु खल्वन्तर्दधे प्रतिमाया वक्त्रगतामन्दहासः ? किं वा मम्लौ तदीया छविः ?” इति।

“न तथा, तथापि न युज्यते भगवत्प्रभामण्डलवितरणम्” इति प्रत्युवाचेतरः।

“असाधु मन्यसे ! यद्यत्रावातरिष्यद्भगवान् सुगतः, तर्ह्यार्तस्यास्य क्लेशमपाकर्तुं स्वकीयकलेवरमप्यहास्यत्। प्रतिमाया अलङ्काररक्षणादपि विपन्नोद्धारणमेव ज्यायः” इति जगाद स कारुणिकः श्रमणः।

121 
 123
Search
stories/122.txt · Last modified: 2026/03/24 17:31