दृष्टिभेदात् सृष्टिभेदः
जज्ञे कदाचिद्दशाननदाशरथिसमरानन्तरं काचित्सभ्यानां गोष्ठी। तस्यां खलु समरवृत्तान्तं लङ्कापुरीं चाधिकृत्य संलापे प्रवर्तमाने कश्चिदेवमुवाच— “नानाविधानि किलासनशोकवनान्तर्वर्तीनि प्रसूनानि?” इति।
“नादस्तथ्यम्, सर्वथा धवलान्येवासंस्तत्रत्यसुमानि” इति जगाद जानकी।
“कुतो वा श्वेतानि? लोहितवर्णमेव बभ्रुरखिलानि पुष्पाणि” इत्युवाच मारुतिः।
“नाभूदेकमपि शोणितवर्णं प्रसूनं तस्मिन्, सितान्येवाविद्यन्त सर्वशः” इति पुनर्व्याजहार वैदेही।
“देवि! कुतस्त्यः सितवर्णस्तत्र? शोणवर्णमेव दधिरे सर्वाण्यपि” इति प्रत्युवाचानिलात्मजः।
आकर्ण्यामुं विवादं सभ्येषु कश्चिन्नाम पप्रच्छ— “मिथोविरुद्धां गिरमुदीरयतोरनयोः कतरस्य कथनं यथार्थम्?” इति।
मन्दं हसित्वाह काकुत्स्थः— “उभयोरपि वचः समञ्जसमेव।”
“कथमिदं घटेत? यत्र ह्येकः सर्वं रक्तमयं पश्येत्, तत्रैवापरः कथं श्वेतमयं वीक्षितुं प्रभवेत्?” इत्यपरः परिपप्रच्छ।
भूयोऽपि बभाषे रामः— “नास्त्यत्र किञ्चिच्चित्रम्। स्वस्वदृष्टिमनुसृत्यैव हि भावना उदेति। यस्मिन् क्षणे यादृशी दृष्टिः प्रसरति, तादृश्येव भावना तमन्वेति। प्रमदावने रुध्यमानापि नित्यशान्तस्वभावा ह्यासीत् सीता। अत एव सर्वतः सितवर्णतैव तया ददृशे।”
“किमर्थं तर्हि मारुतिना सर्वत्र रक्तवर्णतैव व्यलोकि?”
“दशाननमुद्दिश्य, निजवैवश्यात्, रावणाचरितमपकृतमनुस्मरतः, नैर्ऋतांश्च प्रति बभूव तस्य नितान्तो रोषः। तेनैवासौ सर्वत्र लोहितवर्णमेवानुबभूव।”
“यदीत्थं, किं तत्र नानाविधानि सुमान्यासंस्तदा?”
“बाढम्। प्रकृत्यैव कानने चित्रवर्णान्येव कुसुमानि प्रादुर्भवन्ति। परं जानक्यनिलात्मजौ स्वस्वान्तरङ्गे प्रबलं भावमुद्वहन्ताविति हेतोरेतौ क्रमशः श्वेतरक्तवर्णतामेव ददृशतुः” इति व्याजहार रामभद्रः।