You are here: Home » stories » 125
124 
 126

दृढात्मप्रत्ययस्य विजयः

विद्यामन्दिरेऽमुष्मिन्नितान्तमेकाग्रतयाध्यगीषत विद्यार्थिनः। उद्घोषितेषु कदाचित्परीक्षाफलेषूत्थाय कश्चिदन्तेवास्यार्य नाख्यायि त्वया मदीयोत्तीर्णतावृत्तान्त इत्युवाच।

ज्वराद्यातङ्कमपदिश्य सुचिरं खल्वमुष्मिन्पाठमण्डपे नोपास्थाः। तेनानुत्तीर्णस्त्वम्। अत एवामुष्यां नाममालिकायां न समुपलभ्यते ते नामाक्षरमिति व्याजहार गुरुः।

असम्भाव्यमेतदार्येति सप्रश्रयं सप्रत्ययं च बभाषे स अर्भकः।

उत्तीर्णश्चेदभविष्यस्तर्ह्यवश्यममुष्यामावल्यामभविष्यत्ते नाम। सुस्पष्टमेव ते वैफल्यम्। तदलं कोलाहलेन निषीद तूष्णीमित्यवदद्गुरुः।

विफलतां तु नैव गच्छेयमिति पुनर्जगाद सः।

अहो ते धार्ष्ट्यमनुपस्थितोऽपि मया साकं विवदिषुस्त्वम्। वाचालता खल्वियम्। तूष्णीं न निषीदसि चेद्दण्ड्यो भविष्यसीति गुरुणाभिहिते साफल्यं प्रति नास्ति मे लेशोऽपि संशय इत्यवोचद्बालः।

धृष्ट पञ्चमुद्रात्मकं दण्डं ते व्यधामिति प्रचुक्रोशाध्यापकः।

न बिभेमि दण्डात्। उत्तीर्ण एवाहमिति द्राढीयान्मे प्रत्यय इति सः।

कथमनुत्तीर्णमुत्तारयेयम्। भूयोऽपि विवदसे। तस्माद्वर्ध्यते दण्डः। दशमुद्रा देयास्त्वयेति गुरुः।

आर्य निपुणमेवालेखिषमुत्तराणि। अतो नाहं विफलः स्यामिति छात्रः।

पञ्चदशमुद्रास्ते दण्ड इत्येवं भृशं जल्पं जल्पमनुवर्तमाने विवादे दण्डमपि वर्धयामास गुरुः। अन्ते च पञ्चाशन्मुद्रा दण्डत्वेन न्यदीधरत्।

अत्रान्तरे कश्चिल्लिपिकारस्तत्रागत्य गुरुमभ्यधादार्य प्रथमश्रेण्यामुत्तीर्णानां सूच्याममुष्य नाम विद्यते। प्रमादादस्माभिस्तन्नादर्शीति।

ततोऽत्युत्तमाङ्कैरुत्तीर्णं तं बटुं सर्वेऽपि सब्रह्मचारिणः करतलध्वनिना समभावयन्।

दृढात्मप्रत्ययस्य खनिरिवासीत्स बालो राजेन्द्रप्रसादाख्यो य एवाग्रे गच्छता कालेन भारतवर्षस्य प्रथमराष्ट्रपतिपदवीमध्यास्त।

124 
 126
Search
stories/125.txt · Last modified: 2026/03/28 13:53