प्रज्ञाबलोद्धृतो विश्वनाथः
व्यतीते खलु षोडशे शतके समजनि किञ्चिदैतिहासिकं वृत्तम्। विश्वेश्वरपदाम्भोजभृङ्गायमाणो बभूव केलदिजनपदप्रशासिता सङ्कुनायकाभिधानः कोऽपि क्ष्मापतिः। विधर्मिणो विश्वनाथायतनमचुचूर्णन् देवदेवस्य सपर्यां च समूलमुदच्छिन्दन्। इदं दारुणं व्यतिकरमाकर्ण्यामुष्य महीपतेर्मानसं भृशमदूदुयत्। कथमिव बाहुवीर्येण प्रतीपविजयेन च काशिकामुन्मुच्य विश्वनाथसपर्यां पुनरुज्जीवयेयमिति सन्दधानः कञ्चिदुपायाध्वानमन्वविन्दत्। अथानन्तरं स्वकीयकनीयसि भ्रातरि राज्यधुरं संन्यस्य, काषायवसनं परिधाय स देहलीं जगाम।
शास्ति स्म तदानीं देहलीमक्बरो नाम यवनेश्वरः। तस्य चासीदङ्कुशखानाख्यो दुर्दान्तो मदान्धः पृतनापतिः। यः किल दुर्गद्वारदेशे निस्त्रिंशमेकमुल्लास्य समराह्वानेन डिण्डिममुदघोषयत् - “यः कोऽप्यत्रत्य आत्मानमसिचर्यायां पारदृश्वानं मन्यते, स मामभियायात्” इति। देहलीमनुप्राप्तोऽसौ सङ्कुनायकोऽपि तेन सममसिप्रहरणं विधातुं सज्जीभूय स्वसन्नाहं प्रत्यजानीत।
अथ श्वोभूते यवनेश्वरस्य समक्षमसिद्वन्द्वं समुपस्थितम्। अतुल्यमसिप्रहरणकौशलं विवृण्वानोऽसौ केलदिनृपो निमेषार्धेनैव तस्य यवनचमूनाथस्योत्तमाङ्गं चिच्छेद। स्वसेनापतेर्निधनेन सन्तप्यमानोऽप्यक्बरस्तस्य सङ्कुनायकस्य धीरत्वमसिपाटवं च विलोक्यातुष्यत्, तस्मै प्रभूतान्युपायनानि प्रदित्सुश्चायतत। प्रत्याचक्षाणस्तानि प्रदानान्युवाच स भूजानिः - “अलं मे तैः। काशिकायां विश्वेश्वरस्य राजोपचारानहं पुनरुज्जीवयितुं स्पृहयामि। तदर्थमनुज्ञामेव केवलं मे प्रयच्छ” इति। अकबरोऽपि प्रहृष्टान्तरात्मा तदन्वमन्यत।
तदनु वाराणसीमनुप्रविश्य सङ्कुनायको देवदेवस्य नीराजनविधीन् पुनरपि प्रावर्तयत्। गङ्गाकूलवर्तिनां स्नानघट्टानां तीर्थानां विविधानां सुरसद्मनां च जीर्णोद्धारं विधाय, दवीयेभ्यो देशेभ्यः समभ्यागच्छतां यात्रिकाणां कृते च नानाविधान् सौकर्यप्रबन्धानुदपादयत्।
नूनं, दवीयस्यपि देशे निवसन्नप्यसौ नृपो यदुपायपाटवेन विश्वनाथसपर्यामुदतीतरत्, ततोऽमुष्य श्लाघ्यतमः प्रयासो जगति केन वा न संस्तूयेत?