You are here: Home » stories » 137
136 
 138

वाक्चातुर्यविपाकः

चालुक्यक्ष्मापालानां प्रशासने बभूव किल कश्चन ग्रामः। उवास चामुष्मिन् भूरितनयः कश्चिद्वलयवाणिज्यकः।

निधाय चैकदा बलीवर्दशकटे नानावर्णानां वलयानां स्तबकं वाणिज्यार्थं तमुपाश्रितग्राममभिप्रतस्थे सः, अध्यास्त यत्रातिविशाले ग्रामे राजमातात्तिमब्बापि। अब्रवीच्च प्रस्थानकालेऽमुष्य सूनुः—“तात! अनुजिगमिषाम्यद्याहमपि त्वया साकम्, नय माम्” इति।

तन्निगदितमाकर्ण्य विक्रयाय तमादाय प्रतस्थे जनकः। नृपवेश्मोपगम्योपाश्रितग्रामस्य—“अयि मातरः! एत, गृह्णीत विचित्राणि वलयानि” इत्युच्चैरुज्जगाद।

आकर्ण्य तन्निनादं निर्गत्यावरोधवध्वो वलयक्रयणोत्सुका बभूवुः। जहार चात्रान्तरे सर्वासां मनांसि डिम्भकोऽमुष्य सुतस्तत्तदङ्गनां विलोकयन्—“एताखिला मातरः! अम्ब! शोभते तेऽयं लोहितवलयः, ईक्षस्वैनम्। रोचते त्वस्यै नीलः” इत्येवं मुग्धजल्पितैः स्ववाग्मितया च।

निशाम्य चेदृशं मतिमन्तं वाग्मिनं बालकं राज्ञी अत्तिमब्बा वलयवाणिजमपृच्छत्—“कस्मादाटयसि बालममुम्? किमर्थं न प्रेष्यतेऽयं गुरुकुलम्?” इति।

जगाद च स वणिक्—“अम्ब! अकिञ्चनोऽस्मि। क्षीणा हि मे वस्ववस्था। बहवश्च कुल्याः। न क्षमे तस्मादेनं विद्यामठं प्रस्थापयितुम्” इति। अब्रवीच्च तदा राज्ञी—“यद्यभ्युपगच्छसि त्वम्, उद्वहेयं तर्ह्यस्याध्ययनभारमहम्” इति।

अन्वमन्यत च स वणिगेतद्वचनं प्रहृष्टः। आप च बालकोऽप्यनेन मुदम्। व्यधायि ततोऽत्तिमब्बया प्रकृष्टे गुरुकुलेऽमुष्य विद्याभ्यासाय प्रबन्धः।

बभूव च कालेन गच्छता स श्रद्धयाधीयानो महाकविः। आपेदे च स एव ‘महाकवी रन्नः’ इति कर्णाटसाहित्यसंसारे प्रथाम्।

136 
 138
Search
stories/137.txt · Last modified: 2026/04/07 15:02