You are here: Home » stories » 143
← 142 
 144 →

उत्कृष्टनीतिः

अग्रहीत्पारिव्राज्यं कोऽपि पृथ्वीपतिर्वैराग्यमापन्नः। भिक्षामटतेऽमुष्मै काचिद्गृहिणी भिक्षाच्छलेनैव त्रीञ्छालिकणान्व्यतरत्। सविस्मयं स मस्करी पप्रच्छ— “मातर्नालं पाकायामी त्रयः कणाः। नूनमपूर्वमाकूतं मनसि निधायैनानदास्त्वम्। कस्तेऽभिप्रायः?” इति।

ततो जगाद सा— “प्राक् क्षितिपतिरासीरिति ते मुखकमलमेव पिशुनयति। त्रयाणामुपदेशानां ज्ञापनार्थमेवामी त्रयः कणा मयार्प्यन्त।”

“के ते?” इति पृच्छते यतये सा प्रत्यभाषत— “राजप्रासाद इव सर्वदा सुरक्षितस्तिष्ठेरिति प्रथमः। राजहर्म्य इव प्रत्यहं स्वादु भुञ्जीथा इति द्वितीयः। तद्वदेवान्यत्रापि गाढं स्वप्या इति तृतीयः।”

“न खल्वहं सम्प्रति राजमन्दिरे वर्ते। तत्कथमिमे नियमा मयानुष्ठीयेरन्?” इति स विरक्तोऽनुयुयाव।

“कामक्रोधादीनामाभ्यन्तररिपूणां निवारणेनैव निर्विघ्ना ते सुरक्षा। योगाभ्यासादौ नित्यमासेव्यमाने तीव्रा क्षुदुदेति, यया शुष्काप्यपूपिका सुधायते। तस्माज्जठराग्निमुद्दीपयितुं कायिकं श्रमं विदध्याः। भूयसि शारीरे श्रमे सत्येव सुखस्वाप उपनमति। अतो भृशं परिश्राम्येः” इत्यवोचत्सा।

“प्रकृष्टरीत्या मातर्वरिष्ठोऽयमुपदेशो बोधितस्त्वया” इत्युदीर्य तां सप्रश्रयं प्रणम्य स परिव्राट् प्रतस्थे।

← 142 
 144 →
Search
stories/143.txt · Last modified: 2026/04/17 11:05