स्वदोषदर्शनमुकुरः
बभूव किल कस्मिंश्चिदाश्रमे कश्चिद्विनेयः। तदीयां विद्याव्यसनितां शुश्रूषापरतां चावेक्ष्य प्रहृष्टान्तरात्मा देशिकस्तस्य समावर्तनसमये कमपि लोकोत्तरं मुकुरं तस्मै दिदेश। अभिमुखस्थितानां प्राणिनामन्तःकरणवृत्तीराविष्कर्तुमीष्टे स्मासौ मुकुरः।
लब्ध्वेमं मुकुरं प्रहृष्टोऽसावन्तेवासी तदीयप्रभावमीमांसया प्रथमं तं देशिकस्याभिमुखं निदधौ। तत्र च मोहाहङ्कारादिमानसदोषान्ददर्श। निरवद्यो महात्मानमिति स्वगुरुं मेने सः। अतस्तस्मिंस्तादृशदोषदर्शनेन परं विषादमुपजगाम।
अथानन्तरं केषांचित्सहचराणां पुरतस्तमादर्शं व्यापारयामास यत्राप्यनेकान्दोषानैक्षिष्ट। ततो जननीजनकयोरभिमुखमपि तं निदधौ यत्र कांश्चन दोषान्ददर्शैव। अनेन भृशं दूयमानोऽसावाश्रमं प्रतिनिवृत्य स्वानुभवं गुरवे निवेदयन्नवादीत्— “भगवन्, दोषबहुलजनमण्डले निवसामीति महदिदं मे दौर्भाग्यम्” इति।
अथ देशिकस्तं मुकुरमन्तेवासिन एव वक्त्राभिमुखं निदधौ यत्र रागद्वेषादिबहुदोषानद्राक्षीत्सः। एतदवगम्य स विस्मयस्तब्धोऽभूत्।
ततो गुरुर्जगाद— “वत्स, निजपुरत इमं मुकुरं निधाय स्वदोषान्विज्ञाय तदपाकरणाय त्वं यतेथा इत्युद्देश्येनैवाहममुमलौकिकं मणिं तुभ्यं प्रादाम्। परं त्वं तु परदोषान्वेषण एव प्रावर्तिष्ठाः। यदि निजदोषज्ञाने प्रागेव मनः समाधास्यस्तर्हि त्वं स्वस्वभावं प्रभूतं पर्यष्करिष्यः। इतः परं वा निजदोषज्ञाने तदपाकरणे च प्रयतस्व” इति।
तदाकर्ण्य व्रीडावनताननोऽसावन्तेवासी तद्दिनात्प्रभृति निजदोषापाकरणे धृतोद्यमोऽवतस्थे।