You are here: Home » stories » 159
158 
 160

अमोघः खलु निःस्वार्थप्रयासः

शुशोष खल्वैदम्प्राथम्येन स्यानन्दपुरे भगवतः पद्मनाभस्यायतनपुरस्ताद्विद्यमानं पद्मतीर्थाभिधं सरः प्रागष्टादशभ्यो हायनेभ्यः। केनाप्युपायेन जलसमृद्धममुं कासारं दिदृक्षमाणाः पौरा भृशं दध्युः।

तत्रान्तरे साम्बशिवाभिधः कश्चिद् भिषग्वरस्तत्रोपातिष्ठत। विषीदतोऽमून् जनान् स पप्रच्छ - “साकमिह मया सार्धशतमपि जनाः श्रमदानं विधातुं सज्जीभवेयुः किम्?” इति।

“त्वया साकं प्रयतितुं सज्जाः स्मः” इत्यमुं जना ऊचुः।

मेधावितया सर्वदा प्रथमोऽयमध्यगीष्ट तिरुवनन्तपुरीये वैद्यकमहाविद्यालये। नाडीविज्ञाननिष्णातस्यामुष्य न केवलमायुर्वेदे प्रत्युत निगमोपनिषदादिष्वपि भूरिपाण्डित्यमद्योतिष्ट। वृत्तेरुपरतेः पश्चाच्छ्रुत्यध्ययनैकव्यसनोऽसौ विजहार।

आदिदेश चासौ तत्रत्यान् - “श्वो ब्राह्मे मुहूर्ते प्रबोधानन्तरं कृतस्नानाः सार्द्रवसना निराहाराश्च यूयमत्रायात” इति।

समीयुश्च परेद्युरहर्मुखेऽसङ्ख्या जनास्तत्र। तान् सरस्यवतरतः स प्रोवाच - “अहं कञ्चन मन्त्रमुपदेक्ष्यामि, तं यूयं श्रद्धयोच्चारयत” इति। इत्युदीर्य स तान् ऋग्वेदीयं वरुणमन्त्रमशुश्रवत्। एकैकोऽपि जनोऽष्टोत्तरशतकृत्वोऽमुं मन्त्रमजापीत्। तदनु साम्बशिवोऽब्रवीत् - “अथ सर्वेऽपि स्वगृहान् प्रयाथ, स्नानभोजनादिकं च निर्वर्तयत, ततः पुनरपि निवर्तध्वम्। अत्रैवाहं युष्मान् प्रतिपालयिष्यामि” इति।

ववर्ष भृशं पर्जन्यस्तस्यामेव शर्वर्याम्। उषसि तावदपूरि सलिलैः पद्मतीर्थम्। वरुणमन्त्रस्य प्रभावः, पौराणां निःस्वार्थता निराहारतपश्च वृष्टिरूपं फलमदुः। अहो फलेग्रहिता खल्वहङ्कारमुत्सृज्य लोककल्याणाय प्रयतमानानां यत्नस्य!

158 
 160
Search
stories/159.txt · Last modified: 2026/04/30 08:30