अहो सत्यनिष्ठायाः प्रभावः
तीर्थाटनधिया किल विद्यानगरात्प्रतस्थितयोः कस्मिंश्चिद्धनाढ्ये जरठेऽकिञ्चने च यूनि, पन्थानमवगाहमानयोस्तयोर्यूनोत्तमतमया शुश्रूषया भृशं प्रसीदन्स वृद्धो वृन्दावने श्रीगोपालदेवस्य पुरस्तात् - 'तुभ्यमेव दित्सामि निजकन्यकाम्' इति गिरं व्याजहार।
स्ववेश्म प्रत्यागतः स वृद्धः स्वप्रतिज्ञां यदा सूनवे शशंस, तदा निष्किञ्चनाय तस्मै स्वसारं दातुं नैवाक्षमिष्ट सः। “वाग्दत्तैव मया सा, वचनातिक्रमो मे मा भूत्” इति वदन्तं पितरं स तनय उवाच - “न किञ्चिदपि स्मरामीति त्वयापह्नोतव्यम्, यदुत्तरं विधेयं तत्सर्वमहं कर्तास्मि” इति। ततश्चोद्वाहमधिकृत्यानुयुञ्जानं तं युवानं “न किञ्चिदप्यनुस्मरामि” इति मिथ्यैव प्रत्युवाच स वराकः।
“अनृतभाषणं खलु नरकपाताय कल्पते” इति सन्तर्जमाने यूनि, स वृद्धसूनुः प्रत्यवतिष्ठत - “रे रे धूर्त, गरदग्धं मे पितरं विधाय तदीयां सम्पदं समग्रामपहृत्य त्वया खलु दुरात्मना बलात्कारितैषा वाग्दानप्रतिज्ञा” इति। “मैवम्, तव पित्रैव श्रीगोपालदेवसमक्षं सत्यङ्कृतम्” इति स युवा प्रत्युवाच। “कोऽत्र साक्षी? यदि स गोपाल एवात्रागत्य साक्ष्यं ब्रूयात्, तर्हि तुभ्यं मदीयां स्वसारं दद्याम्” इति जहास वृद्धपुत्रः।
तदाकर्ण्य स युवा वृन्दावनं गत्वा तत्रत्यस्य श्रीगोपालविग्रहस्य पुरस्तात्प्रणिपत्य वृत्तं सर्वं निवेद्य च “त्वया विद्यानगरमागत्य साक्ष्यं प्रदेयम्” इति प्रार्थयाञ्चक्रे। “अश्ममयो ह्यहं कथं नाम तत्रागन्तुमुत्सहेय” इत्यनुयुञ्जाने देवे, “यो हि भाषितुमीष्टे, स खलु चेष्टितुमपि शक्नुयादेव ननु” इति स सयुक्तिकं न्यगदत्। तदाकर्ण्य परितुष्टो भगवान् “बाढम्, त्वामनुगच्छामि। परन्त्वध्वनि त्वया कदापि न पश्चादवलोकितव्यम्, प्रत्यहं च मह्यं नैवेद्यमुपहर्तव्यम्” इति समयं चक्रे।
“कथं नु तवागमनं मयावगन्तव्यम्” इति पृच्छन्तं तं युवानं “मच्चरणारविन्दयोः परिहितानां मञ्जीराणां शिञ्जितेनैव मदागमनमवगच्छेः” इत्यवदत्प्रभुः। विद्यानगरमुद्दिश्य प्रतस्थिवाँसौ तौ शतमहोरात्रानतिचक्रमतुः। विद्यानगरस्योपशल्यं प्राप्नुवतोस्तयोर्मञ्जीरध्वनिः सहसा विरराम। किमेतदित्याशङ्कमानः स युवा ससाध्वसं पृष्ठतो ददर्श।
तदा विहस्य भगवान् जगाद - “अत्रैव स्थास्यामि। त्वं गत्वा ग्रामीणानानय” इति। ततः स युवा तं वृद्धं तत्पुत्रमन्यांश्च पौराञ्जुहाव। तेषां समेषामपि पश्यतां शृण्वतां च “अनेन वृद्धेन मत्समक्षमेवास्मै स्वकन्यां दातुं प्रतिज्ञातमासीत्” इति स्फुटं साक्ष्यं ददौ भगवान्। तत एव हेतोः 'साक्षी गोपालः' इति तस्य प्रथा सञ्जाता। कालान्तरे च पुरुषोत्तमाख्यो नृपतिस्तमेव गोपालविग्रहं नीत्वा श्रीजगन्नाथपुर्याः सविधे प्रतिष्ठापयामास।