अपूर्वराजौदार्यम्
निशीथे जातु राज्याधिकरणमुपजगाम महीपतिः। तत्र च कोऽप्यधिकृतः स्वकर्मव्यापृतो ददृशे। तमुद्वीक्ष्य सविस्मयं पप्रच्छ सः- “अये, किमिदं कर्म निशीथेऽप्यनुष्ठीयते त्वया?” इति।
“आधिदूयमानमानसतया नालभे निद्राम्। तदमुष्मिन् राजकार्ये व्यापृतोऽस्मि” इति व्यजिज्ञपत् स नियोगी।
“कोऽयमाधिस्त्वां तुदति?” इत्यन्वयुङ्क्त क्षमापतिः।
“कुसीदभरेण भृशमुद्विग्नोऽस्मि। कथममुष्मान्मुच्येयेति न वेद्मि” इति।
“कियन्मात्रं ते कुसीदम्?” इति पप्रच्छ महीपालः।
“अयुतसुवर्णमुद्रापरिमितम्” इति शनैर्जगाद सः।
मुहूर्तं विमृश्याभ्यधात् महीपालः- “प्रभूतां वृत्तिमाप्नुवन्नपि यदृणं करोषि, तेन व्ययेष्वसंयतस्त्वमिति निश्चीयते। दुर्व्यसनानि च कानिचित् स्युस्ते। न हि त्वादृशानामस्मदधिकरणेऽस्त्यधिकारः। तच्च्यावयामि त्वामुद्योगात्। अपसर्प त्वरितमितः” इति।
किञ्चिदपि प्रतिगदितुमपारयन् अवाङ्मुखः स ततो निश्चक्राम।
परेद्युः प्रत्यूष एव कश्चिद्राजपुरुषस्तस्य निवेशनमाजगाम। तमालोक्य स व्यतर्कयत्- 'नूनमधिकारच्युतिशासनमर्पयितुमागतोऽयम्' इति।
स च राजपुरुषो धनस्यूतं नृपशासनं चास्मै प्रायच्छत्। तस्मिंश्च शासने एवमालिख्यत- 'आश्रितानां योगक्षेमवहनं हि राज्ञां परमो धर्मः। तदमूरयुतसुवर्णमुद्रास्तुभ्यमुपायनीकरोमि। आभिरृणमपाकुरु। अत ऊर्ध्वं व्ययेषु संयतस्त्वं भवेः। अद्यैव च प्रागिव निजकर्मानुतिष्ठ' इति।
नृपस्य तादृशीं वदान्यतामवलोक्य स नियोगी विस्मयस्तब्धो वाचंयम एवावतस्थे।