You are here: Home » stories » 197
196 
 198

अकिञ्चनस्य मानसमन्दिरम्

तिरुनिन्रवूरिति प्रथते कश्चन ग्रामवरश्चेन्नैपुर्याः सीम्नि। न्यवसच्च तत्र पुरा पूसलाराख्यो भर्गभक्त्येकतानोऽकिञ्चनः कश्चन। इयेष सोऽमुष्मै चन्द्रमौलये कमपि तुङ्गं प्रासादं समुत्थापयितुम्। वित्तरहितस्त्वसौ कथङ्कारं तन्निर्मातुं प्रभवेत्? निजामकिञ्चनतामनुचिन्तयन् स सुतरामखिद्यत।

व्यमृशच्च - 'चेतस्येव खलु धूर्जटेरायतनं विरचयितुं पार्यते' इति। ततश्च स निजमनस्येवेष्टिकादारुस्तम्भादीनि वास्तुसाधनानि समचिनोत्। प्रारभत च कस्मिंश्चित् पुण्येऽहनि तदीयमुपक्रमम्। स्वहृदय एवासावम्बिकापतेर्गर्भगृहं मण्डपान् वापिकाञ्च समपीपदत्। असङ्ख्यान्यलङ्करणान्यपि मनसैव परिकल्प्य कमपि शुभमुहूर्तं निश्चित्य तत्र कुम्भाभिषेकं सम्पादयितुं व्यवस्यत्।

काञ्चीपतिरपि यः किल परमशैवस्तदानीमेव कस्यचन महामन्दिरस्य निर्माणं प्रारभत। रत्नौघैश्चकास तदीयो देवालयः। तस्य च प्रासादस्य कुम्भाभिषेकमहोत्सवमपि स भूपतिरेव निश्चिकाय।

तदानीमेव चन्द्रमौली राज्ञः स्वप्ने तमाबभाषे - “अस्मिन् सुनिश्चिते समये पूसलाराभिधस्य भक्तावत्तंसस्य मन्दिरं प्रति प्रस्थास्येऽहम्। अतस्त्वदीयोऽयं कुम्भाभिषेकोऽन्यस्मिन् दिने सम्पाद्यतां यदाहमागन्तुं प्रभवेयम्” इति।

तदाकर्ण्य विस्मितो नृपः पूसलारस्य ग्राममुद्दिश्य प्रतस्थे। नाद्राक्षीच्च तत्र कमपि नूतनप्रासादं स कुत्रापि। साश्चर्यञ्च स “क्वास्ते पूसलारः?” इति ग्रामीणान् पर्यनुयुञ्जानस्तस्य पर्णकुटीरमुपजगाम।

“त्वया निरमायि यः प्रासादः स क्व नु खलु वर्तते?” इति तमनुयुञ्जानो राजा निजस्वप्नवृत्तान्तमपि तस्मै शशंस। तच्छ्रुत्वा पूसलारस्य लोचनाभ्यामश्रुधाराः प्रावहन्। स्वमानसमन्दिरनिर्माणस्य निखिलं वृत्तान्तं स राज्ञे न्यवेदयत्। सर्वमिदमुपलभ्य विस्मितो नृपतिरचिन्तयत् - 'अहो! निष्कल्मषा निरुपमा चास्यान्तरङ्गीणभक्तिः' इति।

“अहमेव तवेप्सितं सम्पूरयिष्यामि” इति तमाश्वास्य तस्मिन्नेव ग्रामे मरकताम्बासमन्वितस्य हृद्यालीश्वरस्य गगनचुम्बिनं प्रासादं स भूपतिः कारयामास। अद्यापि स देवालयो नयनगोचरो भवति। अहो! मानसीं पूजामुररीकुर्वतो नीलकण्ठस्य भक्तानुग्रहवैभवम्।

196 
 198
Search
stories/197.txt · Last modified: 2026/06/07 12:25