नारदगर्वभङ्गः
मुदमाधातुं कौशिकादीनां कदाचिच्छौरिः सङ्गीतमहं वितेने। तत्राहूयत तुम्बुरुनामा गानपटुः। गेयान्ते च तं सभ्यानां पुरस्तात् समर्चयाञ्चकार रमापतिः। नाक्षमिष्ट मुनिनारदोऽमुं सत्कारम्, आविशताञ्चैनं विषादशोकावेकपद एव।
जग्मुश्च ततो विरिञ्च्यादयः। निर्ययौ च तुम्बुरुस्तस्मात् स्थानात्। तथापि न चक्षुश्चकार नारदेऽधोक्षजः, नापि च सस्मितमन्वग्रहीदमुम्।
अनेन भृशं दूयमानो देवर्षिः स्वव्यथां निवेदयिषू रमाया अन्तिकमयासीत्। किन्तु न व्यतरन्नवकाशममुष्मै तदन्तिकं गन्तुं किङ्कर्यः। ततश्चक्रोध भृशं मुनिः। विस्मृत्यात्मानं शशाप चैनाम् - “राक्षसीगर्भादवनीमवतीर्य कस्यापि पापिष्ठशिशोर्माता भवेः” इति।
अचिरादेव व्यरंसीदस्य कोपः। श्रियं यच्छशाप, तस्मादेवानशदस्य सङ्गीतविद्या। ततोऽन्वशुचत्सः। उपसृत्य च शार्ङ्गिणे सर्वं वृत्तं न्यवेदयत् - “प्रायश्चित्तं किमाचरेयमहं कृतस्यास्यागसः?” इति। अन्वशाच्चैनं हरिः - “गानबन्धुनाम्नो दिव्योलूकस्यान्तिकं गत्वा तस्माद्गानं शिक्षस्व। अध्यास्ते स मानससरोवरस्योदीच्यां कञ्चन शिलोच्चयम्” इति।
आकर्ण्यैतदाश्चर्यममंस्त मुनिः। गत्यन्तराभावाच्च गानबन्धुं दिदृक्षुः प्रतस्थे। गन्धर्वकिन्नरयक्षसङ्घैः परिवृत आसीत्स उलूकः। दृष्ट्वा च देवर्षिमागतम्, प्रणिपत्य यथाविधि समर्च्य चापृच्छदसौ - “अहो मे भागधेयम्! भगवन् नारद, ब्रूहि। किमुद्दिश्येहायासीः? किं ते करवाणि?” इति।
शौरिणायोजिते महसि यदभूत् तत्सर्वं तस्मै श्रावयित्वा ययाचे नारदः - “शिष्यत्वेन मामुपनीयानुशाधि सङ्गीतविद्याम्” इति। जग्राह च तं प्रस्तावं सप्रश्रयं गानबन्धुः। तस्मादुपादाय च तां विद्यां लेभे पुनर्गायनसामर्थ्यं देवर्षिः।