You are here: Home » stories » 200

श्लोकैकप्रबोधितवैराग्यम्

पलिताङ्कितमूर्धजो बभूव पुरा कश्चिदवनीपतिः। व्यधात् कमपि महामहं स कदाचित् सौधे आजुहाव च तदर्थं भूरिशो महीक्षितः। आजगाम तदहस्तदीयो वनाश्रितो देशिकोऽपि। प्रावर्तत महोत्सवावसाने कस्याश्चिद्विलासिन्या लास्यम्। तस्थुश्च सर्वेऽपि सभ्यास्तन्नृत्यावलोकनैकाग्रमानसाः। आससादाथ प्रत्यूषः। ददर्श च निद्रायमाणं तूर्यवादकं सा लासिका। जगाद सा सत्रासा तमुद्बोधयिषुः श्लोकममुम्- 'अतीतो बहुकालो रे किञ्चिदेवावशिष्यते। क्षणमात्रस्य दोषेण मा भव त्वं कलङ्कितः॥' इति।

जगृहुर्नानाविधममुष्य श्लोकस्यार्थं विभिन्नाः श्रोतारः। जहौ तन्द्रां तूर्यवादकः प्रवादयामास च सुष्ठु। ननाम तां लासिकां देशिकः कृतज्ञतापुरःसरम्। प्रादात्तस्यै निजमनर्घ्यं हैमहारं नृपात्मजा। न्यवेदयच्च स्वकिरीटं तस्यै राजपुत्रः।

बभाषे तां विस्मयाविष्टो नरपतिरेतदखिलं विलोकयन्- “अये! प्राकृता लासिका त्वं लेभिषे भूरि द्रविणं सर्वेभ्य एकेनैव पद्येन” इति।

जगाद नृपतिमाकर्णयन्नेतद् गुरुर्बाष्पाकुललोचनः- “मा स्म वोच एनां प्राकृताम्। अभूत्सैवेयं सम्प्रति मे देशिकः। उन्मीलयामास खल्वेषा मे नयने। क्षपयाञ्चकाराहमखिलमायुः कानने भगवदाराधनेनैव। दधे च धियं तपसः प्रणाशाय प्रत्यासन्नेऽन्त्यवयस्यस्या लास्यं पश्यन्। प्रतिजिगमिषामि त्विदानीं पुनरपि विपिनम्” इति।

बभाषेऽथ नृपात्मजाऽपि- “तात! न व्यचिन्तयस्त्वं पाणिग्रहणं मे प्राप्तयौवनाया अपि। दधे तत एव धियं पलायनाय हस्तिपकेन साकम्। प्रादुरासीत्तु सद्विचारो मय्यस्याः श्लोकेनैव” इति।

आचचक्षे युवराजोऽपि- “तात! नाहमलक्षयं वानप्रस्थाश्रमग्रहणाभिलाषं वृद्धस्यापि ते चेतसि। मन्त्रयाञ्चक्रे तस्मात् सेनापतेः साहाय्येन त्वां जिघांसुरहं राज्यमवाप्तुम्। सूचयामास त्विदं पद्यमदः- 'भव शान्तस्तिष्ठ तूष्णीम्। भवितासि त्वमेव नृपः पितुरुपरतेरनन्तरम्। आचरसि किमर्थं पितृघ्नतापापम्' इति। व्यरंसीदत एव पापादमुष्मान्मे चेतः” इति।

समजनि महान् परिणामो राज्ञोऽपि स्वान्ते शृण्वत एतदखिलम्। उपलेभे च स आत्मज्ञानम्। प्रादुरभूच्च तस्मिन् निर्वेदः। विममर्श स सम्यक् ददौ च राज्यं युवराजाय। बभाषे च दुहितरम्- “सन्त्यस्यां सभायां बहवो राजपुत्राः। वृणीष्व तेष्वनुरूपं कञ्चित्। निर्वर्तयितास्मि तव पाणिग्रहणम्” इति। वरयामास ततो राजकन्यका कञ्चिद्राजकुमारम्। निर्वर्तयामास राजा तस्याः पाणिग्रहणं जहौ च सिंहासनं जगाम च तपोवनम्।

चिन्तयामास नर्तक्यपि- 'सञ्जातः परिणामोऽन्येषु मदीयं पद्यमाकर्णयत्सु। कथं नु न भवेन्मयि?' इति। उदियाय निर्वेदस्तस्यामपि। निश्चिकाय च सा- 'क्षपयिष्यामि शेषमायुर्भगवन्नामस्मरणेनैवाद्यारभ्य हास्यामि च लास्यम्' इति।

Search
stories/200.txt · Last modified: 2026/06/10 14:55