You are here: Home » stories » 208
207 
 209

आत्मानं संस्कुरु, न वपुः

बभूव कश्चित् क्षितिपालः। तेन जातु कुतश्चिदासादितो वक्रचुञ्चुः। तदर्थं पञ्जरं घटयितुं स स्वमन्त्रिणमादिदेश।

अचीकरदमात्यो लोहमयं किञ्चिदावासम्। तदवलोक्य नृपो बभाषे — “अधुना तावदस्मिन्नेव निरुध्यतामयं कीरः। परं नेदं स्पृहणीयम्। अन्यदेव किञ्चिद्रमणीयं पञ्जरं निर्मापय” इति।

अथ दिनद्वयात्यये राजतं पञ्जरमुपजहार धीसचिवः। तदपि निशाम्य “नैतदपि चारु, अतोऽप्यधिकं कमनीयं घटय” इत्याचचक्षे भूपालः।

ततः पञ्चभिर्वासरैर्निर्माप्य सौवर्णं नीडमुपानयन्मन्त्री। तदपि वीक्ष्य क्षमापतिरवादीत् — “वित्तव्ययमविगणय्यातोऽपि मञ्जुलतरं विधापय” इति।

अनन्तरं दशाहोरात्रैर्बहुमूल्यरत्नखचितं पञ्जरं समुपानयन्मन्त्रिप्रवरः।

तच्च भृशं रुरोच राज्ञे। तदादाय नृपो मन्त्री च तद्धर्म्यं जग्मतुर्यत्रासावायसपञ्जरे निरुद्ध आसीत्। तत्र गत्वा तौ नितरां विषण्णौ बभूवतुः, यतो ह्यसौ कीरस्तस्मिन्नेव नीडे पञ्चत्वमगमत्।

पञ्जरनिर्माणे व्यतीते पञ्चदशाधिकवासरान्तराले न केनापि तस्याशनपानयोर्दत्तमवधानम्। तेन खलु पञ्जरस्थ एवासौ प्राणान् मुमोच।

ईदृश एव नराणां निसर्गः। बाह्यवपुषः कान्तिमुद्दीपयितुं प्रभूतं वसु व्ययीकुर्वन्ति ते, न पुनरन्तरवस्थितमात्मानं कदापि वीक्षन्ते। अत एव मर्त्येषु मानवता क्षीयते, चेतना च म्रियते। प्रवर्धन्ते च सन्तापाः क्लेशाश्च।

207 
 209
Search
stories/208.txt · Last modified: 2026/06/19 12:19