You are here: Home » stories » 211
 
 212

दर्पणन्यायेनेश्वरसाक्षात्कारः

उपससादाथ कञ्चन तपोनिधिं कश्चिद्युवा, पप्रच्छ चैनम्—‘भोस्तपोधन, ईष्टे किमु कोऽपि चक्षुषा साक्षात्कर्तुममुं जगदीश्वरम् ?’ इति।

प्रत्याचख्यौ स मुनिः—‘कथमिव न ? बाढं क्षम्यते। आस्तां तावदिदम्, अनुयुञ्जे त्वामेकम्। प्रगल्भसे किं त्वं निजमेव वपुः साकल्येन वीक्षितुम् ?’ इति।

‘प्रभवाम्येवाहं मदीयं गात्रं सम्यगीक्षितुम्’ इति प्रतिजगाद स युवा।

‘यद्येवम्, विलोकय तावत्सकृदापादमस्तकं निजं वपुः’ इत्यादिदेश स मुनिः।

व्यलोकयच्च स निजं शरीरम्, अवादीच्च—‘अद्राक्षमेव मदीयं वपुः’ इति।

‘अद्राक्षीः किं सर्वाण्यप्यङ्गानि ?’

‘बाढम्, अद्राक्षमशेषतः।’

‘किमु निजं पृष्ठभागमप्यद्राक्षीस्त्वम् ?’

‘आर्य, न हीशे पृष्ठभागं विलोकितुम्।’

‘काममेवम्, प्रगल्भसे किं पुरोभागस्य सर्वाण्यप्यङ्गानि वीक्षितुम् ?’

‘बाढम्’ इत्यभ्यधात्स युवा।

‘पुरोभागस्याङ्गेषु मूर्धन्यं खलु वदनम्। प्रभवसि किं निजमेव वक्त्रं विलोकितुम् ?’

‘आर्य, न ह्युत्सहे निजमेव मुखमीक्षितुम्।’

अथ प्रोवाच स मुनिः—‘वत्स, साकल्येन निजं वपुर्दिदृक्षसे चेत्, पुरतः पृष्ठतश्चादर्शौ निदध्याः खलु। एवमेवामुं चिदानन्दमयं जगदीश्वरं साक्षात्कर्तुं भगवदपाङ्गवीक्षणं देशिककरुणा च नितान्तमाकाङ्क्ष्येते। देशिककटाक्षलवेनैव हि पारमेश्वरीं करुणामवाप्नुयाः’ इति।

अवननाम चाष्टाङ्गैस्तं महात्मानं स युवा, यदा खल्वेतदाकर्णयत्, अन्वबुध्यत च निजं दोषम्।

 
 212
Search
stories/211.txt · Last modified: 2026/06/21 13:08