इन्द्रियनिग्रहो हि महात्मनां सहजः
इन्द्रियनिग्रहो हि महात्मनां सहजः
दाशरथेर्वनवासव्यसनकालीना खल्वियं कथा। कदाचिदनिर्दिष्टकारणवशात्पर्णशालाया निर्जगाम काकुत्स्थः। तदनुजोऽपि सौमित्रिर्महीरुहस्याधस्तान्निषण्णः श्रीरामचरणचिन्तापरवशोऽवतस्थे। तदानीमेव निद्रापहृतचेतना जानकी शिर उपधातुमुपधानमपश्यन्ती ध्यानस्तिमितं देवरमालोक्य तदुत्सङ्गे मूर्धानमाधाय सुष्वाप।
नातिदीर्घेण कालेन तत्रोपजगाम रघूद्वहः। तादृशं दृश्यमवलोकयन् स निजदिव्यदृष्ट्या परमार्थमवबुबुधे। विदित्वापि तयोरनुपमं पावित्र्यमशेषतो राघवः सौमित्रेः सत्त्वपरीक्षणमन्वियेष। ततश्च शुकवेषमास्थाय कञ्चन पादपमधिरुह्य मानुषीं वाचमुदैरयत् -
पुष्पं दृष्ट्वा फलं दृष्ट्वा दृष्ट्वा स्त्रीणां च यौवनम् । त्रीणि रत्नानि दृष्ट्वैव कस्य नो चलते मनः ॥
आकर्ण्यैतदुत्कम्पमानो लक्ष्मणो नासौ प्राकृतः कीरः, अपितु शक्रपुरोगमेषु गीर्वाणेषु कश्चिदेवं व्याहरतीति तर्कयामास। अतः स प्रत्युवाच -
मनो धावति सर्वत्र मदोन्मत्तगजेन्द्रवत् । ज्ञानाङ्कुशे समुत्पन्ने तन्नो चलति मे मनः ॥
अनेन प्रत्युत्तरेण प्रशान्तचित्तोऽपि कीरविग्रहो रामो भूयोऽपि बभाषे -
अग्निकुण्डसमा नारी घृतकुम्भसमो नरः । जानुस्थिता परस्त्री च कस्य नो चलते मनः ॥
तदात्व एव सत्वरं लक्ष्मणः प्रत्यवादीत् -
पिता यस्य शुचिर्भूतो माता यस्य पतिव्रता । उभाभ्यां यश्च सम्भूतस्तस्य नो चलते मनः ॥
इति निशम्य परमां मुदमुपगतो रघुनन्दनः स्वं नित्यं रूपमास्थाय लक्ष्मणाय भूरिश आशिषो विततार।