कीचकरन्ध्रसम्भूता वंशी
वैणविकशिखामणित्वेनैव प्रथते खलु जगति भगवान् वासुदेवः। नन्दगोकुले शैशवं व्यतिनयतोऽमुष्य करकमले सततं चकासे काचन दिव्या वंशी। मथुरामधिगतवति तस्मिन्, कालक्रमेण राजनीतिविशारदे सञ्जातेऽपि, यद्यपि सा नयनगोचरतां नायासीत्, तथाप्यद्यापि वेणुहस्त इत्येवाखिलाभिः प्रजाभिः परिभाव्यतेऽसौ।
गोचारणकर्मणि व्यग्राणामप्याभीराणां वेणुवादनव्यसनं कथमुदपादीति जिज्ञासायां सत्याम्, प्राचीनानां वक्त्राम्बुजेभ्यः परम्पराप्राप्ता काचिदाख्यायिका मयात्र प्रस्तूयते।
एकदा रामकृष्णाभ्यां सार्धं गोचारणाय विपिनमवगाहमानेषु गोपालेषु, कुत्रचित् कीचकस्तम्बः कश्चन तेषां चक्षुर्विषयतामगात्। तमभितश्चरन्तो वत्साः कमप्यनिर्वचनीयं नादमाकर्ण्य, मन्त्रमुग्धा इव तत्रैवावतस्थिरे। न ते पदान्तराणि पुरतो न्यधुः, न वा पृष्ठतो न्यवर्तिषत। तद्विलोक्य विस्मिता आभीराः 'किं नु खलु वत्सान् वशीकरोती'ति जिज्ञासमाना गवेषणामारेभिरे।
तत्रत्येषु कीचकेषु शकुन्तैः स्वचञ्चुभिः कानिचन रन्ध्राणि व्यधायिषतेति ते व्यज्ञासिषुः। तेभ्यो रन्ध्रेभ्यो विनिर्गच्छन् मातरिश्वा 'सुयूँ सुयूँ' इति कमपि श्रुतिसुभगं स्वनं ससर्ज। तमेव नादमाकर्ण्य वशं गता वत्सास्तत्रैव बद्धमूला इव निश्चला अस्थुः।
नादेनानेन वशीबभूवुराभीरा अपि। कीचकान् प्रच्छिद्य, तेषु सूक्ष्माणि रन्ध्राणि परिकल्प्य, किञ्चनापूर्वं वाद्यं ते निर्ममुः। ततश्च वक्त्रमारुतेन पूर्यमाणे तस्मिन्, कश्चन सुमधुरो निनाद उदियाय। शाद्वले समुपविश्य ते वेणुवादनमारेभिरे। ततो मुग्धा वत्सास्तानेवानुसृत्य प्रचेरुः। यद्यमी विहङ्गा रन्ध्राणि नाकरिष्यन्, तर्हि कथं नामास्य वाद्यस्योत्पत्तिरभविष्यदिति चित्रम्!
इत्थमाभीरा एव प्रथमा वैणविकाः समपत्सत। एतदेव वंशीवाद्यस्य प्रथमं निदानम्।
आभीरकुले समेधमानस्यास्य कृष्णस्य करकमलेऽपि निसर्गत एव वंशी न्यवात्सीत्। भगवतः करस्पर्शमाहात्म्यादेव वेणुरयमनितरसाधारणीं भुवनविश्रुतां ख्यातिमवाप।