You are here: Home » stories » 218
217 
 219

अनन्यपूर्वा श्रद्धा

प्रत्यहं खलु सुरमन्दिरमभिजगाम काचिद् बाला। तत्रत्याया अर्चायाः पुरस्तादवतस्थे सा, मुकुलितलोचना बद्धाञ्जलिपुटा च कियन्तञ्चित् कालं मातृकाक्षराण्यावर्त्य, देवं प्रणिपत्य ततो निरगात्। अन्वहं तामेवमनुतिष्ठन्तीं वीक्षमाणः कश्चिद्भक्तो दध्यौ — ‘कुतो न्वियं मुग्धा देवदेवस्य पुरतोऽनन्यया श्रद्धया मातृकामेवाधीते?’ इति।

इत्थमेव पञ्चदश दिनानि व्यतीयुः। अथैकदा तदागमनात् प्रागेव निजानि कर्माण्यवसाय्य स पुमान् मन्दिरं प्रत्याजगाम, अमुष्या मातृकाजपावसानं प्रतीक्षां चकार। नयने उन्मील्य यदा सा प्रस्थातुमुद्यता, तदा तस्या मूर्धनि सस्नेहं करं निधाय स पप्रच्छ— ‘अयि वत्से! अन्वहमिहाभ्येत्य मातृकां जप्त्वा प्रणम्य च प्रतियासि। किमर्थमेतद् विधत्से?’

सा प्रत्यवादीत्— ‘प्रार्थयेऽहम्’ इति।

‘का नाम प्रार्थना? मातृकामेव खलु त्वमभिधत्से? किं वा मातृकापठनं स्तोत्रायते?’

‘मम तु मातृकैव स्तोत्रम्’ इति सा प्रत्युवाच।

‘कथं नु मातृका स्तोत्रं भवेत्? केवलेन वर्णोच्चारणेन किं वा फलं निष्पद्येत?’

‘मातृकापि खलु प्रार्थनाया एवाङ्गम्। दिदेश हि मां मातामही— त्वं तावन्मातृकां वेत्थ। तामेव भक्त्या भगवतोऽग्रे पठेः। गच्छता कालेन स्तोत्राणि प्रार्थनाश्चापि बोद्धुं प्रभविष्यसि— इति। ननु खल्वखिलानि स्तोत्राणि प्रार्थनाश्चैतैरेवाक्षरैर्ग्रथितानि! तस्मादहं कृत्स्नां वर्णमालां पञ्चकृत्व आवर्त्य देवमेवं याचे— प्रभो! नाहं स्तोतुं वेद्मि। तस्मादमीष्वक्षरेष्वन्तर्निहितां मे प्रार्थनां त्वमेवाङ्गीकुरुष्व— इति। नूनं देवो मे मातृकाप्रार्थनामुररीकरोत्येव’ इत्यभिधाय सा बालिका सलीलमुत्प्लवमाना ततो जगाम।

‘स्तोत्राणि प्रार्थनाश्चाविदुष्या अप्यमुष्या भगवति श्रद्धा तु दृढीयस्येव’ इति ध्यायन् स भक्तोऽपि निजकार्यार्थं प्रतस्थे।

217 
 219
Search
stories/218.txt · Last modified: 2026/06/28 11:57