You are here: Home » stories » 230
229 
 231

विश्वावनदीक्षितो हरिः

प्रथितयशाः श्रीधरस्वामी अध्यात्मतत्त्वविमर्शरसिको बभूव। श्रीमद्भगवद्गीताश्रीमद्भागवतयोस्तेन यद्व्याख्यानं व्यतानि, तद्विद्वन्मण्डलीषु सुमहतीं प्रतिष्ठां लेभे। पारिव्राज्यदीक्षामङ्गीचिकीर्षुमप्यमुं, 'त्यक्तगार्हस्थ्यस्य मे पत्नी डिम्भकश्चायं तनयो वा कां गतिमापद्येयाताम्' इति दुर्निवारः कश्चिदाधिर्भृशमुदवेजयत्।।

अथ कालेन तस्य सहधर्मिणी पञ्चत्वमाप। 'एकं तावत् संसारबन्धनं स्वयमेव व्यशीर्यत' इत्यसौ व्यमृशत्। किन्तु 'अनाथस्यास्य बालस्य योगक्षेमौ कथं वा निर्वर्त्येयाताम्' इत्येषोद्वेगस्तं नैवामुञ्चत्। अथैकदा आधिभिः परितप्यमानोऽसौ स्वकक्ष्यायामुपाविशत्। तदा खलु छदिषः स्रस्तमेकं गृहगोधिकाण्डं भूमावपतत्। निपातवेगेन तत् समशीर्यत। तस्माच्च विदीर्णादण्डादेको गोधिकापोतो बहिर्निरगात्। बुभुक्षां विवृण्वानः स शावको वक्त्रं मुहुर्मुहुर्व्याददानोऽचेष्टत। 'नचिरादेवैनं कृपणं कृतान्तस्ताडयिष्यति' इत्यसौ प्रत्यैत्।

अत्रान्तरे काचन मक्षिका कुतश्चिदुदपतत्, अण्डोल्बद्रवेण च तत्रैवाबन्धि। उड्डयनाय सा सर्वथैव नापारयत्। अथ स सद्योजातः शावको लीलयैव जिह्वाप्रसारं तामग्रसीत्। आश्चर्यमेतदवलोकयतः श्रीधरस्वामिनो मनसि काचनाभिनवा जीवनदृष्टिरुदभूत्। 'सकलस्याप्यस्य ब्रह्माण्डस्य योगक्षेमवहनदीक्षितः खलु स एव करुणावरुणालयो भगवान्। ततश्च मे डिम्भकस्यास्य भरणं को वा विधास्यतीति मे चिन्ता सर्वथा निरर्थिका। “न मे भक्तः प्रणश्यति” इति स्वयमेव भगवता प्रत्यज्ञायि। अतस्तनयस्य योगक्षेमविषये नाहं वृथा शोचेयम्' इत्यवधार्य स श्रीधरस्वामी पारिव्राज्यदीक्षामग्रहीत्।

तस्मिन्नेव समये कश्चनेभ्यस्तस्य बालस्य भरणपोषणभारं सानन्दमुवाह। अनेन तस्य पुत्रविषयिणी चिन्ता समूलमुदखानि।

229 
 231
Search
stories/230.txt · Last modified: 2026/07/11 13:10