You are here: Home » stories » 237
236 
 238

श्रीमद्भागवताविर्भावः

कदाचित् चिन्तासन्तानदूयमानमानसः सत्यवतीसुतो निजमाश्रमपदमध्यासीनो दिनान्ते दर्भासने निषण्ण आसीत्। तमेवम्भूतं दिदृक्षमाणो देवर्षिर्नारदस्तत्रैवाजगाम।

दृष्ट्वैवागतं देवर्षिं जगाद खिन्नचेताः पाराशर्यः— “उपस्थितः खल्वयं दोषनिधिः कलिः। विसृज्य निजधर्मं पापे रज्यन्त्यमी जनाः। अकार्षं तावदहं महाभारतम्, यत्राख्याता मया धर्माधर्मयोस्तत्त्वमीमांसा, बोधितं च ‘धर्म एवाचरणीयो नाधर्मः’ इति। तथाप्यमी हतप्रज्ञा न मे वचो निशामयन्ति। विजृम्भते ह्यधर्मो दिगन्तेषु। निष्कारणमेव परोपघाते प्रयतन्ते मर्त्याः। किमत्र मया विधेयम्?” इति।

आकर्ण्यैतद्गभीरगिरा प्रत्युवाच नारदः— “साधु तावदकार्षीस्त्वं भारताख्यानम्। परन्त्वमुष्मिन् प्रबन्धे भगवद्भक्तितत्त्वं न तथा पप्रथे यथा धर्मतत्त्वम्। मन्दभक्तिका एव लक्ष्यन्ते साम्प्रतिका मानवाः। अत एव कलौ युगेऽस्मिन्नधर्मस्य प्राबल्यम्। विमृश तावत्—त्वत्प्रणीतकाव्ये कदा वाऽवतरति वासुदेवः? ननु द्रौपदीस्वयंवरे। कुत्र वामुष्मिन् ग्रन्थे भगवतो महिमा भक्त्युद्रेकेण प्रपञ्चितः? नूनमपर्याप्तमेतत्। तस्मात्कलिहतचेतसामुद्धारणायापरमेकं ग्रन्थं प्रणयेः, यत्र हि श्रीकृष्णपदारविन्दयोर्निर्व्याजभक्तिरेव साकल्येन वर्ण्येत” इति।

नारदगिरा सम्प्रहृष्टमनाः सत्यवतीसूनुर्निरुपमं श्रीमद्भागवताख्यं महापुराणं चक्रे। अमुष्मिन् खलु प्रबन्धे भगवतो माधवस्य लोकोत्तरं महिमानम्, अचिन्त्यं विक्रमम्, असङ्ख्यानवतारांश्च परमानुरागभरितया वाचा प्रपञ्चयाञ्चकार।

तदनु निजात्मजं श्रीशुकमुपाहूयादिशत्— “वत्स! समधिगच्छैतद्भागवतम्, श्रावय च निखिलं जनम्” इति। पितृगौरवात्तत्प्रसारणधुरं सानन्दमुदुवाह शुकः। स खल्वनेकान् जनपदान् सञ्चरन् भागवतमकरन्दं व्यतरत्। ततः प्रभृति जनेषु भक्त्युन्मेषः प्रादुरभूत्। किं बहुना, तां पीयूषायमाणां कथामाकर्ण्य राजर्षिः परीक्षित् तक्षकोपनतमपि मृत्युभयं विसस्मार। अल्पीयसैव कालेन भागवतस्यामलकीर्तिर्दशदिशो जहार।

236 
 238
Search
stories/237.txt · Last modified: 2026/07/17 12:13