शमशस्त्रप्रकर्षः
अक्षमालां पाणौ बिभ्रत्, भगवन्नामामृतरसपानमत्तो विटपिमूलमुपाविवेश कश्चन वीतरागः परिव्राट्। आजगाम च तमुद्देशं स्वास्त्रविद्याकौशलदर्पोन्मत्तः कश्चिद्धानुष्कः। अवधीर्यामुं मुनिं स पप्रच्छ - “अये तापस! किमदो धार्यते त्वया पाणावुपहासास्पदम्?”
जगाद प्रशान्तचित्तो यतिः - “अक्षमालेयम्। किमु तवांसतटे लम्बते?”
प्राह योद्धा - “अहो ते जाड्यम्! ननु कोदण्डमिदम्! किमविदितं ते कार्मुकम्? मदीयमिदं प्रहरणम्।”
अनुयुयुजे तापसः - “अक्षमालैवास्मदीयायुधम्। केन खल्विदं शस्त्रं तुभ्यं वितीर्णम्?”
बभाषे भटः - “अस्मदीयजनपदप्रशासत्रा शूरवर्मणा दत्तमिदम्।”
उवाच मुनिः - “मदीयमायुधं पुनरखिलभुवनाधीश्वरेण श्रीरामेणैव मह्यं व्यतारि।”
अगर्जद्भटः - “मदीयमिदमायुधमरातिशतं क्षणलवेनैव संहर्तुमीष्टे।”
प्रत्यवदन्मुनिः - “मदायुधे तु धृते सति लोकेऽस्मिन् कश्चिदपि रिपुर्नैवावशिष्यते, अपि तु सर्व एव सुहृद्भूयमुपगच्छन्ति।”
“किं विडम्ब्यते मदायुधं त्वया? अवलोकय तावदस्यामोघं प्रभावम्” इत्युदीर्य स धन्वी ज्यायां विशिखं सन्धाय नभोमण्डलमवलोकयामास। ददर्श च वियति डयमानं कमपि पतत्रिणम्। तमेव शरव्यीकृत्य मुमोच च निशितं बाणम्। मर्मणि निर्भिन्नश्च तेन सायकेन स विहगो विगलितप्राणो यतेः पुरस्तात् पपात। व्यजृम्भत च तदा तस्य शस्त्रोपजीविनो वदने कश्चन दर्पान्धो विजयहासः।
कारुण्यपरवशस्तु स यतिस्तं निहतं पतत्रिणं सकरुणं निर्वर्ण्य, 'राम! राम!' इति मुहुर्मुहुर्व्याहरन् स्वाक्षमालया तं पस्पर्श। तदक्षमालास्पर्शसमकालमेव स विहगः प्रत्यापन्नप्राणः सन्नुड्डीय नभोमण्डलमवाप।
तदद्भुतमालोक्य हतप्रभस्य तस्य योद्धुर्वदनं विच्छायमभूत्। प्रणिपत्य च मुनेश्चरणयोर्दण्डवत् स काकुस्वरैः प्रार्थयामास - “आर्य! सर्वोऽपि मेऽवलेपो धूलिसादभूत्। प्रसीद मयि। अनुगृहाण मां शिष्यत्वेनाङ्गीकृत्य” इति।