You are here: Home » stories » 267
266 
 268

क्रोधजयो हि परमजयः

शौर्यधुरन्धरौ समरदुर्मदौ विजयसिंहप्रतापरुद्रौ परस्परं तुमुलमायोधनमारेभाते। समबलत्वादमुयोर्वीरयोर्न कस्यापि जयो नापि च पराजयः समपद्यत, येन स दारुणः सङ्ग्रामोऽविश्रान्तं प्रावर्तत।

अथ जातुचिद्रणाजिरे युध्यमानोऽसौ विजयसिंहो वाजिपृष्ठाद् धरण्यां पपात। तं निपतितं विलोक्य कोशादसिमाकृष्य तं निहन्तुं सत्वरमुपाद्रवत्प्रतापरुद्रः। तत्रात्मनोऽवमाननममृष्यमाणः स विजयसिंहस्तु प्रतिपक्षस्य वक्त्रमुद्दिश्य सरोषं व्यष्ठीवत्।

एतदचिन्त्यं दुर्विलसितमवेक्ष्य क्षणं विस्मयस्तिमितोऽसौ प्रतापरुद्रः सद्य एव निजजिघांसां निरुध्य करवालं पुनरेव कोशे न्यवेशयत्।

शत्रोस्तदाश्चर्यकरं चेष्टितं विलोक्य परं विस्मयमुपगतो विजयसिंहः प्रोवाच - “हा धिक्, किमर्थं मां निहन्तुं कृतो निश्चयस्त्वयोज्झितः? नैव ते दयायाः पात्रं भवितुमुत्सहे। परिभवात्पश्चाज्जीवितान्मरणमेव श्रेयस्करं मन्ये। तस्माच्छिन्धि मे शिरः” इति।

तदाकर्ण्य प्रतापरुद्रः प्रत्यभाषत - “नैतद्युज्यते। नाहं सम्प्रति युयुत्से। श्वोऽहं समराय पुनरेष्यामि। तदानीमेव नौ सङ्ग्रामः प्रवर्तताम्” इत्युदीर्य ततो निर्गन्तुमुपाक्रमत।

“किन्निमित्तमीदृशं वचस्त्वया व्याह्रियते?” इति सविस्मयं पप्रच्छ विजयसिंहः।

प्रतापरुद्रः प्रत्यवदत् - “रोषविवर्जितं यच्छस्त्रमुद्यम्यते तदेव तात्त्विकमायोधनम्। त्वन्निष्ठीवनेन मे क्रोधानलोऽतितीव्रं सन्धुक्षितः। रोषताम्राक्षस्तु नाहं प्रहरामीति मे सङ्कल्पः। क्रोधो हि दुर्जयो महानन्तःशत्रुः। स एवादौ निग्रहीतव्यः। तद्विजयानन्तरमेव बाह्यरिपून् विजेतुं यत्नः साधीयान्। पराजयशङ्कया हताशो भूत्वा त्वं व्यष्ठीवः। भयग्रस्तस्त्वं क्रोधान्धश्चाहम्, तस्मादावां द्वावपीदानीं सङ्ग्रामायानर्हौ। श्वस्ते त्रासो मे च रोषो व्यपगच्छेताम्। तदैवावामाहवमनुसन्तनितुमर्हाव” इतीरित्वा प्रतापरुद्रः स्वशिबिरं जगाम। विजयसिंहोऽप्युत्थाय स्वनिवेशनं प्रति प्रतस्थे।

परेद्युस्तौ पुनरप्यन्योन्याभिमुखौ सञ्जातौ। तदा विजयसिंहः स्मेराननः सन्मैत्रीहस्तं पुरतः प्रसारयामास। प्रतापरुद्रोऽपि तं करं गाढं जग्राह। तत ऊर्ध्वं तौ परमसुहृदौ भूत्वा चिरमवातिष्ठेताम्।

266 
 268
Search
stories/267.txt · Last modified: 2026/08/18 03:43