मर्यादापुरुषोत्तमस्य विनयप्रकर्षः
लङ्कापुरीमथ कदाचिदधिगते दाशरथौ, तदागमनसमुल्लसितो विभीषणस्तु प्रमोदभरमन्थरान्तःकरणस्तं सानन्दं सप्रश्रयं चोपचर्य यथार्हमावासं प्रकल्पयामास।
अथ व्यतीतेषु त्रिषु वासरेषु, जगाद कदाचिद्राजमाता कैकसी विभीषणम्—“वत्स! एनं रामं दिदृक्षतेतरां मे मानसम्। बहुशो बोधितोऽपि तेऽग्रजोऽमुष्य पारमार्थिकं तत्त्वं न बुबुधे। आस्तां तावत्तत्। अहमेवैनमवलोकितुमुत्कण्ठे। तस्मात्तद्दर्शनार्थं मे गमनं संविधेहि” इति।
ततो राघवमुपेत्य मातुराशयं विज्ञाप्य पप्रच्छ विभीषणः—“आर्य! किमहं तामत्रैवानयेयम्?” इति।
प्रत्युवाच च दाशरथिः—“किमिति तत्रभवत्यात्रागन्तव्यम्? या ते जननी सैव ममापि। सुतेनैव खलु जननीसन्निधिरुपगन्तव्यः। नार्हन्ति मातृपादा अत्रागमनक्लेशभाजो भवितुम्। अतोऽहमेव तदाशीर्लिप्सया तच्छुद्धान्तं जिगमिषामि। अलमत्र कालहरणेन, सद्य एव प्रस्थास्यावहे” इति।
इत्युदीर्य प्रस्थितं दाशरथिमनुवव्राज विभीषणः। तौ च कैकस्याः शुद्धान्तं जग्मतुः। राघवमेव स्वयमुपस्थितमालोक्य कैकसी परमां मुदमाप।
तां च सविनयं प्रणिपत्य प्रार्थयामास रामः—“आर्ये! अयमहमभिवादये रामः। कौसल्या मे जन्मदात्री, धर्मतस्तु भवत्यपि मे जनन्येव। आशिषां प्रदानेन मयि सानुक्रोशा भव” इति।
ततः कैकसी जगाद—“वत्स! ईदृशस्यैव विनयातिशयस्य हेतोस्त्वं सर्वलोकनमस्यो जातः। वस्तुतस्तु ते रिपोरेवाहं जननी। तथाभूतायामपि मयि परममादरं प्रकटयन् मामवलोकितुं स्वयमेवागतोऽसि। एतादृशमनुकरणीयं शीलं त्वादृशेष्वेव महात्मसु सम्भाव्यते। एभिरेव चरितैस्त्वं ‘मर्यादापुरुषोत्तमः’ इति प्रथामवाप्तवान्। वत्स! चिरायुर्भव। स्वकीयैराचारैर्धर्मं पुनरपि संस्थापय। सर्वाणि भद्राणि ते स्युः” इति यत्स्नेहाकुलमुवाच, तदाकर्ण्य दाशरथिः परमां निर्वृतिमुपजगाम।