स्वात्मदानम्
सर्वस्वं भूसुरेभ्यः प्रतिपिपादयिषुः शार्ङ्गधन्वा पुरा किल कञ्चनमखमुपाचक्रमे। समवेताश्चामुष्मिन्क्रतुवरे समाहूताः सर्वेऽपि तपोनिधयः।
निर्वृत्ते चावभृथे दानदीक्षामापन्नो गरुडध्वजस्तान्महर्षीनित्याबभाषे - 'यद्यदभीप्सितं तत्तदखिलमपाहरध्वम्' इति।
तदाकर्ण्य प्रहृष्टैस्तैर्विप्रैस्तदानीमनर्घ्यरत्नहाटकानि, रथेभतुरगसिंहासनानि, किं बहुना, हर्म्यद्वारस्तम्भा अपि जगृहिरे। इत्थं तैर्निःशेषमपाहृतेषु वसुषु, शून्यीबभूवासावप्राकृतो लोकः।
अवसाने च प्रतिपादनस्य, 'नाद्यापि प्राप्तोऽत्रिमहर्षिर्वसु ग्रहीतुम्' इति संस्मृत्य तमानिनीषुः श्रीपतिर्जयविजयाख्यौ द्वाःस्थौ प्रजिघाय।
अमुष्याश्रममुपजग्मुषोस्तयोः, कस्मिंश्चिज्जपयज्ञे निदिध्यासुरत्रिमहर्षिस्तदागमनप्रयोजनमवगम्य, 'अनुष्ठानमवसायैवागन्तास्मी'ति पाणिमुद्रयैवादिदेश। ततश्च तौ न्यववृताते।
समाप्ते च जपकर्मणि, परमपदमुपागच्छन्तं तमालोक्य तावेवमवोचताम् - 'अतिचिरेणागतस्त्वम्। साम्प्रतं तु हृतसर्वस्वत्वान्निष्किञ्चनोऽयं वैकुण्ठः' इति।
'किं मे धनेन ? मदागमनं गरुडध्वजाय निवेदयतम्' इति तावाज्ञापयामास स मुनिसत्तमः।
तद्वृत्तान्तं शौरये तावाचख्याते। ततश्च स्वयमेव प्रत्युद्गम्य तमभ्यागतं स्वागतीचकार कमलेक्षणः।
पाद्यार्घ्यादिभिस्तमभ्यर्च्य कुशासने चोपवेश्य स व्याजहार - 'ब्रह्मन् ! तुभ्यं प्रदातुं न किमप्यवशिष्यतेऽस्मिन्परमपदे। तदिदानीं किं करवाणि ?' इति।
श्रुत्वैतत्स्मितपूर्वमुवाच स ब्रह्मर्षिः - 'न मे धनेषु काचिदपि स्पृहा। त्वमसि खल्वत्र। त्वद्दर्शनेनैव चरितार्थोऽस्मि' इति।
ततो भगवान् प्रत्युवाच - 'मुने ! मदन्तिकमुपजग्मुषे तुभ्यं मया किञ्चित्प्रदेयमेव। तस्मात्स्वात्मानमेव ते सम्प्रददे' इति।
इत्थं निजमात्मानं दत्त्वा स देवदेवो 'दत्त' इति प्रथां लेभे। स एव चाग्रेऽत्र्यनसूययोरात्मजत्वेनावतीर्णो 'दत्तात्रेय' इति त्रिभुवनेषु प्रख्यातो बभूव।