You are here: Home » stories » 289
← 288 
 290 →

आन्तर्यावबोधस्य महिमा

श्रियः प्रकर्षेण कुबेरमपि विहसन्निव कश्चित् सार्थवाहः पुरा किल बभूव। तस्य च वंशविस्तारकौ कुलतन्तू द्वावात्मजौ समपद्येताम्। अथ कदाचित् स्वान्तमुपसर्पन्तमवबुध्यमानः स वार्धकोपहतो वणिक् तौ सुतावाजुहाव। आहूय च तावेवमनुशशास— “हे वत्सौ ! क्रयविक्रयव्यापारे यदि युवां श्रियमेधयितुं कामयेथे, तर्ह्यमूनि चत्वारि रहस्यानि हृद्यवधारयेतम्। आपणं प्रति गमनकाले सुखदमारुतसेवनम्, सुस्वादुमृष्टान्नभोजनम्, सुखप्रसुप्तिः, दत्तर्णप्रत्यागमनचिन्ताभावश्चेति। एतच्चतुष्टयस्यानुष्ठानेन युवयोर्यशो ध्रुवमुदेष्यति” इति।

पञ्चत्वं गते च पितरि, स्वातन्त्र्येण तौ भ्रातरौ वाणिज्यमारेभाते। तत्र ज्यायान् खलु पितृगिरां वाच्यार्थमेव जग्राह, न त्वाशयम्। तथाहि— परिचारकधृतविशालव्यजनैर्वीज्यमान एव स विपणिमगात्। अहन्यहनि च राजोचितानि पक्वान्नानि जघास, कोमलतल्पेषु चाशयिष्ट। ऋणग्राहिभ्यो दत्तस्य द्रव्यस्य प्रत्यर्पणाय तान् जातु नापीपीडत्। एतादृशेनाविवेकप्रचुरेण व्यवहारेण नचिरादेव स वराको महतीमर्थहानिमवाप्य निष्किञ्चनोऽजनि।

कनीयांस्तु सूक्ष्मदर्शी महामतिरासीत्। पितृप्रोक्तवचनानां गूढार्थं स एवमन्वचिनोत्— ‘प्रातस्तुहिनशीतले काल एव विपणिर्गन्तव्या, रात्रौ च प्रत्यागन्तव्यम्, तेन हि पथि आतपक्लेशो न बाधेतेति’ प्रथमवाक्यस्यार्थः। ‘श्रमाम्बुस्नातस्य बुभुक्षो रूक्षमप्यन्नं सुस्वादु सम्पद्यते, गाढश्रान्तस्य च भूमावपि सुखनिद्रा स्वयमेवोपसर्पतीति’ द्वितीयतृतीययोर्भावः। ‘ऋणदानसमये तत्तुल्यमूल्यकवस्तुनो न्यासरूपेण ग्रहणे सति, ऋणनाशाशङ्का नोदेतीति’ चतुर्थस्य तात्पर्यम्।

इत्थं पितृवाक्यानां परमार्थमवबुध्य तेनैव पथा स्ववाणिज्यं सञ्चालयन् स महाप्राज्ञो नचिरादेव कुबेरायमाणो महतीं सम्पदम् अध्यारुरोह।

← 288 
 290 →
Search
stories/289.txt · Last modified: 2026/09/09 12:54